सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/71

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ーマ सिद्धान्तकौमुदीसहिता [अच्सन्धि षेधस्तु न दीर्घेशकारयो । ग्रहणकशास्त्रस्य सावण्र्यविधिनिषेधाभ्यां प्रागनिष्पते । ‘ अक किम्। हरये । 6 अकोऽकि दीर्घ ? इत्येव सुवचम्। 6 ऋति सवर्णे ऋ वा ’ (वा ३६४०) । होतृकार-होतृकार [होतृ ऋकार-होतृ.३कार ] ‘लति सवणें लवा' (वा ३६४१) होत्लकार [-होलू लकार -होलं३कार] पक्षे तात्रिवृत्यर्थमचीत्यनुवर्तनीयामिति भाव । ननु ईकारशकारयो स्थानप्रयत्नसाम्येऽपि न सावण्र्यम् । नाज्झलाविति निषेधात् । अत कुमारी शेत इत्यत्न अकस्सवर्ण इत्यस्याप्रसक्तै अचीत्यनुवृतिव्र्ययैवेत्यत आह । नाज्झलावितीति ॥ नाज्झलाविति सावण्र्यनिषेधे वार्णसमास्रायिकानामेव । नतु दीर्घालुतानामपि। आदिरन्त्येन सहेतत्यनेन वार्णसमाम्नायिकानामेव अचशब्दवाच्यत्वावगामात । अत ईफारशफारयोस्सावण्र्यसत्वात कुमारी शेत इत्यत्रातिप्रसन्स्स्यादित्यचीत्यनुवृत्तिरावश्यकीत्यर्थ । ननु वार्णसमाम्रायिकानामेव अच्शब्दवाच्यत्वेऽपि अच् शब्दोपम्थितै अकारादिभि हृस्वदीधैग्लुतानामपि अहण भवति । अणुदित्सूत्रबलात्। अत ईकारशकारयोर्न सावर्ण्यप्रसत्तिरित्यजनुवृत्तिव्र्यथैवेत्यत आह । ग्रहणकेति ॥ अणुदित्सवर्णस्येति ग्रहणकसूत्र हि लब्धात्मकमेव सत् 'अस्य च्वौ, इत्यादौ प्रवृत्तिमर्हति । नाज्झलाविति प्रवृत्तिदशायाच ग्रहणकशास्त्रमिद न लब्धात्मकम् । तद्धि सवर्णपदघटितत्वात्सवर्णपदार्थावगमेोत्तरमेव लब्धात्मकम् । सवर्णसञ्ज्ञाविवधायकश्च तुत्यास्यसूत्र सामान्यतस्खार्थ बोधयदपि नाज्झलाविति अपवादविषय परिहृत्य तदन्यत्रैव पर्यवसान लब्ध्वा स्वकार्यक्षमतामश्नुते । उत्तश्च 'प्रकल्यापवादविषयमुत्सर्गोऽभिनिविशति? इति । एवञ्च अणुदित्सूत्रस्य नाज्झलाविति निषेधसहिततुल्यास्य सूत्रप्रवृत्ते प्रागलब्धात्मकतया नाज्झलाविल्यत्र अज्ग्रहणेन दीर्घप्लुताना ग्रहणाभावेन ईकारशकारयोस्सावण्र्यनिषेधाभावेन सावण्र्यसत्वात कुमारी शेत इत्यत्र अकस्सवर्ण इति प्राप्तैी तन्निवृत्यर्थमचीत्यनुवृत्तिराश्रयणायेत्यर्थ । तदेतत नाज्झलाविति सावण्र्यनिषेधो यद्यपीति ग्रन्थव्याख्यावसरे प्रपाचितम्। अकोऽकि दीर्घ इत्येव सुवच्चमिति ॥ एवञ्च सवर्णग्रहणन्न कर्तव्यामिति लाघवम् । दद्ध्द्रयृकार इल्यत्र तु यथासङ्खयाश्रयणान्नातिप्रसङ्ग । ततश्च अचील्यनुवृत्तिरपि नाश्रयणीयेति भाव । ऋति ऋद्ध्वा इति वार्तिकम् अकस्सवर्ण इल्यतोऽनुवृत्तसवर्णपदेन योजयित्वा पठति । ऋति सवर्णे ऋविा ॥ अक इत्यनुवर्तते । एक पूर्वपरयेरिति च । अकस्सवर्णे ऋति परे पूर्वपरयो ऋ इलेकदेशस्स्यादित्यर्थ । होतृकार इति ॥ होतृ ऋकार इति स्थिते अनेन द्वयो. ऋकारयो स्थाने ऋकारावलक्षणो नृसिहवत् द्वयन्तरात्मा ऋकारोरेफद्वयवान् कश्चिद्वर्णो भवति । एतदभावपक्षे रूप दर्शयति । होतॄकार इति ॥ अकस्सवर्ण इति दीर्घ । लति सवर्ण लवा ॥ अकस्सवणें लति पर पूर्वपरयो ल इयेकादेशो वा स्यादित्यर्थ । होत्लृकार इति ॥ होतृ लृकार इति स्थिते ऋकारस्य लुकारस्य च स्थाने नृसिंहवत् द्यन्तरात्मा लृकार द्विलकारवान् कश्चिद्वर्णो भवति । पक्ष इति ॥ उक्तव्यत्तथन्तरात्मकवर्णाभावपक्षे ऋकारस्य लृकारस्य च स्थाने अकस्सवर्ण इति दीर्घो भवन् ऋलवर्णयेोरिति सावण्यदृकार एवं भवति । लुकारस्य दीर्घाभावादित भाव । अत एव होतृ लुकार इत्यत्न सवर्णदीर्घपक्ष