सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/52

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम्] बालमनोरमा ४३ ५७ । सर्वत्र शाकल्यस्य ।। (८-४-५१) द्वित्वं न। अर्क । ब्रह्मा। ५८ । दीर्घदाचार्याणाम् ।। (८-४-५२) द्वित्वं न। दात्रम्। पात्रम्। ५९ । अचो रहाभ्यां छे। (८-४-४६) अच. पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वास्त । हय्यैनुभव.। नह्ययस्ति ६० । हलो यमां यमि लोपः । (८-४-६४) हल परस्य यमो लोप स्यादू यमि। इति लोपपक्षे द्वित्वाभावपक्षे चैकर्य नकारस्य द्वित्वविकल्प । राष्ट्रमिल्यत्र षकारस्य द्वित्वविकल्प । सवैत्र शाकल्यस्य ॥ नेत्यनुवर्तते । यत्र यत्र द्वित्व विहित तत्र तत्र शाकल्यस्य ऋषेर्मते द्वित्वन्न भवतीत्यर्थ । दीघौदाचार्याणाम् ॥नेत्यनुवर्तते । दीर्घात् परस्य यरो द्वित्व केषाविदाचार्याणाम्मते न भवति । मतान्तरे तु भवति । अनचिचेल्यत्र वाग्रहणमनुवर्तत इति नाज्झलाविति सूत्रे कैयट । एवञ्च अनचिचेत्येव द्वित्वविकल्पसिद्धौ त्रिप्रभृतिष्विल्यादि सूत्रय नारम्भणीयमिति प्रौढमनोरमाया स्थितम् । एतत्सूत्रद्धयविरोधादनाचचल्यत्र वाग्रहणन्नानुवत्र्यमिति युक्त प्रतिभाति । अचोरहाभ्य द्वें ॥ यरोऽनुनासिक इत्यतो यर इति षष्ठ्यन्त वेतिचानुवर्तते । अच इति दिग्योगे पञ्चमी । पराभ्यामिति शेष । रहाभ्यामिल्यपि पञ्चमी । परस्येति देशष । तदाह । अचःपराभ्यामित्यादिना। हर्यनुभव इति ॥ हरेरनुभव इति विग्रह । हरि अनुभव इति स्थिते रेफादिकारस्य यण् । तस्य द्वित्व । अथ हकारात् परस्येादाहरात । नह्यस्तीति । नहि अस्तीति स्थिते हकारादिकारस्य यण् । तस्य द्वित्व । इहोभयत्न यकारस्य अच परत्वाभावादच्परकत्वात् यण प्रतिषध इति निषेधान्च द्वित्वमप्राप्त वेधीयते । अत्र अनचिचेति रेफहकारयोद्वैित्वन्न भवति । द्वित्वप्रकरणे रहाभ्यामिति रेफत्वेन हकारत्वेन च साक्षाच्छुतेन निमित्तभावेन तयो यरशब्दवोधितकार्यभाच्कबाधात् । श्रुतानुमितयोश्श्रुत थलीय इति न्यायात । हर य् य् अनुभव । नह यू य् अम्ति इति स्थिते । उभयत्नापि प्रथमयकारस्य लेपावधिमाह । हलोयमां यमि लोपः ॥ झयो होऽन्यतरस्यामंल्यतोऽन्यतरस्यामिल्यनुवर्तते । तच्च*विभक्तिप्रतिरूपक्रमव्यय वार्थे वर्तते । यमामिति वहुत्व प्रयोगबहुत्वापेक्षम् । एकैकस्मिन् प्रयोगे बहूना यमामसम्भवात् । हल इति दिग्योगे पञ्चमीं । परस्येति शेष । तदाह । हलः परस्य यम इत्यादिना॥ अनेन सूत्रेण उदाहरणद्वयेऽपि प्रथमयकारस्य लोपे सति एकयकाररूप सम्पद्यते। लोपाभावपक्षे तु द्वियफाररूप सम्पद्यते । ननु। हलो यमामेति सूत्रमेतदर्थ नारम्भणीयम्। अचोरहाभ्यामिति यकारद्वत्वस्य वैकल्पिकतया द्वित्वे सति द्वियकाररूपस्य द्वित्वाभाव एकयकाररूपस्य च सिद्धेरित्याशङ्कय नास्य सूत्रस्यात्र प्रयोजनमित्याह । इति