সন্ধকতামূ] बालमनोरमा R अधिकारोऽयम्, तेन सपादसम्राध्द्यायी प्रति त्रिपाद्यसिद्धा । त्रिपाद्यामपि पूर्व प्रति परं शास्त्रमसिद्धं स्यात् । बाह्यप्रयत्नस्त्वेकादशधा । विवार संवार’ श्वासो नादी घोषोऽघोषोऽल्पप्राणेो महाप्राण उदात्तोऽनुदात्त स्वरितधेति । सति किमु उत्त किम्बुतमिल्यत्र मोऽनुस्वार इति शास्त्र वैष्पादिक प्रति ‘मय उजो वो वा' इति वत्वशास्त्र त्रैपादिक प्रति नासिद्ध स्यादित्यत आह। अधिकारोऽयमिति ॥ अधिक्रियते उपरितनसूत्रजालशेषत्वेन पठ्यत इत्यधिकार । कर्मणि घञ् ।। * घञजबन्ता पुसि’ इति पुस्त्वम्॥ अयमिति तदपेक्षया पुल्लिङ्गनिर्देश । इद सूत्रमुपरितनसूत्रेष्वनुवृत्यर्थमेव । नतु स्वतन्त्रविधिरिति यावत्। 'मयउनो वोवा” इति सूत्रे पूर्वत्रासिद्धमिल्यनुवर्तते । ततश्च मय परस्य उजो वकारो वा स्यात् । इद शास्त्र पूर्वत्रासिद्धमिति तदेकवाक्यत्व सपद्यते । तत्र च अनुवृत्तपूर्वशब्देन इत प्राक्तन त्रिपादीस्थ सपादसप्ताद्ध्यायीस्थञ्च कृत्स्न सूत्रजाल विवाक्षितामिति मेोऽनुखार इति त्रैपादिक शास्त्र प्रति 'मय उनो वोवा' इति शास्त्रस्यासिद्धत्व निर्बाधमिल्याह। तेनेति । अधिकारत्वेनेल्यर्थे । परं शाख्त्रमसिद्धमिति ॥ असिद्धत्वञ्चात्र नाल्यन्तासत्वम् । किन्तु पूर्वशास्त्रदृष्ट्रयेल्यनुपदमेवोक्तम् । परशास्त्रमिल्यनेन प्रक्रियाकोमुद्यादिग्रन्थोक्त कार्यसिद्धत्वमप्रामाणिकमिति ध्वनितम् । कार्यासिद्धत्व पूर्वपक्षयित्वाशास्त्रासिद्धत्वस्यैवात्रसूत्रे'आसिद्धवदखाभात'इति सूत्रे च भाष्ये सिद्धान्तितत्वात्। शास्त्रासिद्धत्वकार्यासिद्धत्वयो फलभेदस्तु शब्देन्दुशेखरे व्यक्त । अस्माभिश्चस्वादिसन्धौ मनोरथ इत्यत्र मूलव्याख्यावसरे हलन्तशब्दाधिकारे च अदशब्दप्रक्रियाव्याख्यावसरे प्रपञ्चयिष्यते । तदेव 'अ अ' इति सवृतावधे स्वप्राक्तनी कृत्स्रा अष्टाद्धयायी प्रल्यसिद्धत्वात् प्रक्रियादशायामवर्णस्य ह्स्वस्य विवृतत्वमेव । परिनिष्ठितदशायामेव सवृतत्वमिति स्थितम् । यद्यपि परिनिष्ठितदशाया सवृतविविधे क्कचिदप्यस्मिन् शास्त्रे नोपयुज्यते । तथापि परिनिष्ठिते सवृतविधिबलादेव सवृतत्वेन ज्ञाने सलेमेव प्रयोगार्हतेति कल्प्यम् । विवृतसवृतयोरुचारणभेदी वा कल्प्यमिल्यल बहुना । अथ बाह्यप्रयत्नान्प्रपञ्चयति । बाह्यप्रयत्नस्त्विति ॥ प्रशब्दोऽत्र • अश्य च पक्ष भाष्ये बहुख दूषित । तत्र हेतुस्तु लक्ष्येषु समीहितरूपासिद्धिरेव । शब्देन्दुशेखरेऽपि अय विषयो बहुधा प्रपञ्चित । पूर्वत्रासिद्धमिल्यनेन सिद्धे असिद्धत्वारोप प्रातपाद्यते। तत्र निरधिष्टानारोपस्य असभवात् सूत्नेोदाहरणाय लक्ष्ये विप्रातषेधे पर कार्यमिल्यनेन पेक्षया परस्य रोरीति सूत्रेण विधीयमानलेपरूपस्यैव कार्यस्य प्रथमत प्रवृतौ तस्मिन् लेपरूप कायें पूर्वत्रासिद्धामेल्यनेन अभावप्रतियेोगित्वारोपेऽपि देवदत्तहान्तरेि हते देवदत्तस्य नोन्मजनमिति न्यायेन प्रकृते रोरभावात हशिचेत्युत्वस्य अप्रवृत्ती इष्टरूपासिद्ध स्पष्टेंव । शास्त्रासेद्धत्वपक्षे तु यद्यच्छास्त्र त्रैपादिक प्रवृत्युन्मुख तत्तच्छास्त्र एव आसिद्धत्वारोपात् पूर्वशास्त्रप्रतिबन्धकस्य परशास्त्रस्य उच्छेदबुद्धौ सत्या पूर्वशास्त्रप्रवृतिर्निरडुशा । वस्तुतस्तु कार्यासिद्धत्वपक्षे मनोरथ इत्येतल्लक्ष्यासिद्धिकथर्न न चारुतरम्। दर्शनाभावरूपे लेपे अभावारोपस्य दर्शनारोपरूपत्वेन रोस्सत्वात्। अभावाभावस्य प्रतियोगिरूपत्वात्। अमू अमी इत्यादि लक्ष्यासिद्धि*पर एतत्पक्षा भ्युपगमे देष इल्यभियुक्ता ॥
पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/22
दिखावट