सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/152

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम्] बालमनोरमा । « 89ጻ २३३ । भस्य ।। (६-४-१२९) । इत्यधिकृत्य । २३४ । अट्ठपोऽनः । (६-४-१३४) अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपर, योऽन् तस्याकारस्य लोप स्यात् । २३५ । रषाभ्यां नो णः समानपदे । (८-४-१) एकपदस्थाभ्यां रेफषकाराभ्या परस्य नस्य ण स्यात् । यूष्ण । भ्याम् इति स्थिते स्वादिष्वति पदत्वात् 'ससजुषो ' इति रु । “भेोभगो'इति तस्य यकारे 'हलि सर्वषाम् इति तख्य लेपे माभ्या माभिरिति रूपमिल्यर्थ । इत्यादीति । माभ्य इत्यादिरादिशब्दाथै । मास् सु इति स्थिते रुत्वे 'खरवसानयो ' इति विसर्गे 'वा शरि' इति सत्त्वविकत्प । मास्सु-मासु । भस्य ॥ इत्यधिकृत स्पष्टमेव । यूषशब्दो मण्डवाची । 'मुद्रामलकयूषसु भेरीदीपनपाचक' इत्यादिवैद्यशास्त्रे प्रसिद्धम् । तस्य शसि 'पद्दन'इति यूषन्नादेशे यूषन् अस् इति स्थिते ॥ अल्लेपोऽनः ॥ अत् इति लुप्तषष्ठीक भिन्न पदम् । अन इत्यवयवषष्ठ्यन्तम् अतेो विशेषणम् । अनेोऽवयवे योऽकार तस्य लोप इति । अङ्गस्येल्यधिकृतम् इहावयवषष्ठ्यन्तमाश्री यत । तच्चान इत्यत्रान्वेति । अङ्गावयव य अन्। तदवयवस्य अवकारस्य लोप इति । भस्येत्य विकृतम् अन इत्यनन्तन्वेति । ततश्वान असवैनामस्थानयजादिस्वादिपरत्व लभ्यते । तदाह । अड्रावयवः इत्यादिना ॥ अनन्तस्य भस्याङ्स्याकारस्य लोपस्स्यादिति प्राचा व्याख्याने तु तक्ष्णेल्यत्र तकारादकारस्यापि लोपप्रसङ्गः । भस्याङ्ज्ञस्यानोऽकारस्य लोप इति व्याख्याने तु अन सा मनसेत्यत्रातिव्याति । अन इत्यावत्र्य अनन्तस्य भस्याङ्स्यानोऽकारस्य लेोप इति व्याख्याने तु अनस्तक्ष्णेत्यत्रातिव्याप्तिरेव । तस्मादुतैव व्याख्येत्यन्यत्र विस्तर । यूषन् असू इत्यत्र षकारादकारस्य लोपे यूष न अस् इति स्थिते। रषाभ्याम ॥ रषाभ्यामिति दिग्योगे पश्चमी। परस्येत्यज्रयाहार्यम् । समानशब्द एकपर्याय । यथा । समानग्रामा चयमिति । आधारसप्तमी बलात् विद्यमानाभ्यामिति लभ्यते । न इति षष्ठी । तदाह । एकपदस्थाभ्यामिति ॥ एकत्वत्रेहाखण्डत्व विवक्षितम् । पदे इत्येतावतैव सिद्ध समानग्रहणसामथ्र्यात । अन्यथा राम नामत्यार्दी'अद्कुप्वाङ्'इति णत्वापति । एतस्यैव समानपदशब्दस्य तत्राप्यनुढते। मातृभोगण इत्यत्र णत्वन्तु तद्धिताधिकारे वक्ष्यते । यूष्णः इति ॥ शसि रूपम् । यूष्णेति ॥ तृतीयैकव चनम् । नचाल्लोपस्य स्थानिवद्भावात् नकारस्य षात् परत्व नेति शङ्कयम्।'रषाभ्याम् इति षात्परस्य हि नस्य णत्वे कर्तव्ये अल्लोपस्य स्थानिवद्रावो नापेक्षित । किंतु णत्वाभावे.तदपेक्षा । णत्वाभावश्चाशास्त्रीयत्वान्नातिदेश्य । स्थानिनि सति यत्कार्य भवति तदेव हि स्थानिवत्सूत्रेणातिदिश्यते । स्थानिनि सति यन्न भवति तदादेशेऽपि न भवतीत्येव कार्याभावस्त्वशास्त्रीयत्वान्नातिदिश्यत इति स्थानिवत्सूत्र अवोचाम । यद्यपि “अच परस्मिन्' इत्यत्र अशास्त्रीय कार्यौभावोऽप्यतिदिश्यत इत्यभ्यधायि । तथापि नेह तस्यापि सूत्रस्य प्रवृत्तिरस्ति । स्थानीभूतादच पूर्वत्वेन दृष्टस्यैव विधौ तत्प्रवृत्ते । इह चाल्लोपस्थानीभूतादकारात् परस्यैव णत्वविधानादिति भाव. । ननु ‘अच परस्मिन्' इति सूत्रे स्थानीभूतादच पूर्वस्मात् परस्य R 19