सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/144

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम्] बालमनोरमा । १३७ इतिवत्। भाष्यकारस्तु *त्वकात्पतृक.' “मकात्पतृक 'इति रूपे इष्टापर्ति कृत्वैतत्सूत्र प्रत्याचख्यौ । अधिकदशित्वात् । यथोत्तर मुनीना प्रामाण्यम्।। *संज्ञोपस वदिति ॥ भवच्छब्दस्य सर्वादिगणे पाठातू सर्वनामत्वादलौकिकविग्रहदशायामकच्। ततश्ध भवकतू अ अति इत्यर्लौकिकविग्रहवाक्य सम्पद्यते । तत्र 'अत्यादय क्रान्ताद्यथें द्वितीयया” इति समासे सति *सुपेो धातुप्रातिपदिकयो ” इति सुब्लुकेि अतिभवकच्छब्दातू प्रथमैकवचने अतिभवकानिति रूपम् । समासाभावपक्षे तु भवकन्तमतिकान्त इति लौकिक विग्रहवाक्य भवति । तत्र समासदशाया। भवच्छब्दार्थस्य स्वीपक्रान्तार्थान्तरप्रधानतया उपसर्जनत्वेऽपि अलौकिकविग्रहदशाया। भवच्छब्दस्यानुपसर्जनत्वातू सर्वनामत्वे सति प्रवृत्त’ अकच् अतिकान्तो भवकन्तामति लौकिकविग्रहवाकये अतिभवकानिति समासेऽप्यनुवर्तते । लौकिकविग्रहदशाया भवच्छब्दस्य उत्तराल्या अनुपसजैनत्वात्। समासे तस्योपसजैनत्वेऽपि योनिभूतार्लौकिकविग्रहदशाया प्रवृत्तस्याकचो निवृत्यभावात । नच भवत् अम् इत्यर्लौकिकविग्रहदशाया सतोऽग्यनुपसर्जनत्वस्य समासदशाया विनाश प्राप्स्यमानतया विनाशोन्मुखत्वात् अकृतव्यूहपरिभाषया अलौकिकाविग्रहवाक्येऽपि सर्वनामत्वाभावात् अकज्दुर्लभः । ततश्च अतिक्रान्तो भवकन्तुमिति लौकिकविग्रहवाक्ये अतिभवकानिति समासे च कथमकच्प्रसक्त इति दृष्टान्तासिद्धिरिति वाच्यम्। एवञ्जातीयकालौकिकविग्रहवाक्ये सर्वनामत्वप्रवृतौं अकृतव्यूहपरिभाषाया अनिल्यत्वेन आप्रवृत्त । तदनल्यत्वे च न बहुत्रीहाविति सूत्रमेव ज्ञापकम् । तथा हियद्यकृतव्यूहपरिभाषा सार्वत्रिकी स्यातू, तर्हि बहुव्रीहिविषयेऽपि युष्मद्स् पितृ स् इत्याद्य लौकिकविग्रहवाक्ये अनुपसर्जनत्वस्य बहुत्रीहिकालिकविनाशोन्मुखतया सर्वनामत्वस्याप्रसक्तत्वात न बहुव्रीहाविति नारभ्येत । अकृतव्यूहपरिभाषायास्तत्राप्रवृत्ते । भविष्यद्बहुव्रीहिकालिकविनाशोन्मुखमनुपसर्जनत्व पुरस्कृल्य तदलैकिकविग्रहवाक्ये सर्वनामत्वस्याप्रसक्तत्वातू न निषेधाय न बहुत्रीहाविल्यर्थवत् । नच उदाहृतबहुत्रीहिविषयालौकिकविग्रहवाक्ये अकृतव्यूहपरिभाषामाश्रिखैव सर्वनामत्वाभाव आश्रीयताम्। किं न बहुत्रीहाविति सूत्रेणेत वाच्यम् । एव सल्यतिक्रान्तो भवकन्तमतिभवकन्तमातभवकानिल्यादि न सिञ्जेत् । अकृतव्यूहपरिभाषया तदलौकिकविग्रहवाक्येऽपि सर्वनामत्वाभावेनाकच प्रवृत्यभावे तस्यातिक्रान्तो भवकन्तमिल्यादिलौकिकविग्रहवाक्ये अतिभवकानिति समासेऽपि श्रवण न स्यात्। एवच बहुत्रीहिविषये अलैकिकविग्रहवाक्ये अकृतव्यूहपरिभाषाया अप्रवृतिं सिद्धवत्कृल्य सर्वनामत्वनिषेधात्तदितरसमासविषयेऽप्यलौकिकविग्रहवाक्ये अकृतव्यूहपरिभाषाया अप्रवृत्या सर्वनामत्व विज्ञायते । एतदर्थमेव न बहुत्रीहाविति सूत्रमिल्यन्यत्र विस्तर । प्रत्याचख्याविति ॥ निराकृतवानल्यर्थ । सूत्रभाष्ययोरुभयोरपि स्मृतित्वाविशेषेऽपि उत्तरग्रन्थस्य प्रामाण्य पूर्वपूर्वस्याप्रामाण्यमिति भाव । आधिकदर्शित्वादिति ॥ वैयाकरणसमय इति भाव । न चाकृतव्यूहपरिभाषाया उक्तरील्या आनेल्यत्वज्ञापनार्थमेतत्सूत्नमिति वाच्यम् । अकृतव्यूहपरिभाषाया निमूलत्वस्य निष्फलत्वस्य च हलन्ताधिकारे सेदिवस्शब्दनिरूपणे 'समर्थाना प्रथमाद्वा' इत्यत्न च वक्ष्यमाणत्वात्। यथोत्तरमिति ॥ सूत्रकाराद्वार्तिककारस्य उभाभ्यामपि भाष्यकृत इत्येव मुनीनामुत्तरोत्तरस्य । Р 18