प्रकरणम्] वालमनोरमा । ?茨* ज्ञातिधनान्यवाचिन स्वशब्दस्य या प्रामा संज्ञा सा जसि वा स्यान । स्वे-स्वा । आत्मीया इत्यर्थ । आत्मान इति वा । ज्ञातिधनवाचिनस्तु स्वा , ज्ञातयोऽर्था वा । २२० । अन्तरं बहियोंगोपसंव्यानयोः । (१-१-३६) बाही परिधानोये चार्थऽन्तरशब्दस्य या प्रामा सज्ञा सा जास वा स्यात्। अन्तरे-अन्तरा वा गृहा । वाह्मा इल्यर्थ । अन्तरे–अन्तरा वा शाटका । परिधानोया इत्यर्थ । २२१ । पूर्वादिभ्यो नवभ्यो वा । (७-१-१६) एभ्यो नवभ्यो डसिडन्यो स्मात्स्मिनौ वा स्त । पूर्वस्मान्-पूर्वात्। पूर्वस्मिन्-पूर्वे । एव परादीनामपि । शेषं सर्ववत् । एकशब्द सङ्कयायां नित्यैकवचनान्त । तीति ॥ अत्रापि सर्वैनामानीति विभाषा जसीति चानुवर्तते । ज्ञातिश्च धनञ्च ज्ञातिधन तयो राख्या ज्ञातिधनाख्या न ज्ञातिधनाख्या अज्ञात धनाख्या तस्या अज्ञातिधनाख्यायाम् । स्वामेति शब्दस्वरूपापेक्षया नपुसकत्वम् । तदाह । ज्ञातिधनान्येति । स्वे—स्वाः, इति ॥ सर्वनामत्वे शीभाव , 'तदभावे तदभ व इति भाव । आत्मा आत्मीय ज्ञाति धनत्रेति स्वशब्दस्य चत्वारोऽर्थो ! (नि) *स्वेो ज्ञातावात्मनि स्व त्रिष्वात्मीये स्वोऽस्त्रिया वने ? इल्यमर । अत्र स्वो ज्ञातावात्मनीलेयक वाक्यम् । ज्ञातावात्मनि च स्वशव्द पुल्लिङ्ग इल्यर्थ । स्व त्रिष्वात्मीये इति द्वितीय वाक्यम् । आत्मीये स्वशब्दो विशेष्यनिम्र इत्यर्थ । स्वोऽख्रिया धन इति तृतीय वाक्यम् । धने स्वशब्द पुनपुसक इत्यर्थ । * स्वस्स्यात् पुस्यात्मनि ज्ञातौ विष्वात्मीयेऽत्रिया वने ? इति मेदिनीकोश । तत्र ज्ञातिधनयो पर्युदासात् आत्मनि आत्मीये च सर्वनामत्व जसि विकत्प्यत इत्यभिप्रेत्य व्याचप्टे । आत्मीया इत्यर्थ इति । आत्मान इति वेति ॥ ज्ञातिधनपर्युदासस्य प्रयोजनमाह । ज्ञातिधनवाचिनस्त्विति ॥ ज्ञातिवाञ्चिन वनवाचिनश्च सर्वनामत्वर्पयुदासात् जसि स्वा इत्येव रूपमित्यर्थ । नच ज्ञातिधनयोरप्यात्मीयत्वपुरस्कारे सर्वनामत्व न स्यादिति वाच्यम् । आख्याग्रहणबलेन ज्ञातित्वधनत्वपुरस्कार एव पर्युदासप्रवृत्ते । अन्तरमा । अत्रापि सर्वनामानीति विभाषा जसीति चानुवर्तते । बाह अनावृतप्रदेश तेन योगस्सम्बन्ध यस्य स बहिर्योग बहिविंद्यमानोऽर्थ इति यावत् । उपसवीयते पारधी यत इति उपसव्यान अन्तरीय वस्त्र तदाह । बाह्य इत्यादिना । पूर्वादिभ्यो ॥ डासङयोस्स्मात्स्मिनावित्यनुवर्तते । इत्याह । एभ्य इति ॥ पूर्वपरेत्यादिदिनसूत्रीनिर्दिष्टा पूर्वादय इह विवक्षिता । त्यदादयो हलन्ताधिकारे व्याख्यास्यन्ते । एकशब्दस्संख्यायामिति ॥ अर्थान्तरे तु द्विवचनबहुवचने अपि स्त । ‘एकोऽन्यार्थ प्रधाने च प्रथमे केवले
पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/142
दिखावट