प्रकरणम्] बालमनोरमा । १३३ कान्। तथापीह तदन्तग्रहणम्। केवलयो संज्ञाया. प्रयोजनाभावान्। अन्यतरान्यतमशव्दावव्युत्पन्नौ स्वभावाहिबहुविपये निर्धारणे वर्तते। तत्रान्यतमशब्दस्य गणे पाठाभावान्न सञ्जा । 'त्व' 'त्व' इति द्रावायदन्तावन्यपर्यायौ । “एक उदात्तोऽपरोऽनुदात्त ' इत्येके। ‘एकस्तान्त ” इत्यपरे। नेम ' इत्यर्ध। सम सर्वपयोय । तुल्यपर्योयस्तु नेह गृह्यते , “यथासङ्खयमनुदेश समानाम् । (सू १२८) इति ज्ञापकात्। “अन्तर बहियोगोप-'(ग सू ३) इति गणसूत्रे “अपुरि इति वक्तव्यम् (वा २४०) । अन्तरायां पुरि । कतरकतमादिशब्दाना अहणमिति स्थितम् । ननु उतरग्रहणेनैव सिद्धे सर्वादिगणे अन्य तरशब्दपाठो व्यर्थ । अन्यतमशब्दस्यापि डतमप्रत्ययान्तत्वात् सर्वनामत्वापत्तिश्चत्यत आह । अन्यतरान्यतमशब्दावव्युत्पन्नाविति ॥ डिन्थादिशब्दवत् प्रकृतिप्रत्ययविभाग विहीनाविल्यर्थ । कियक्तदेकेभ्य एव डतर। डतम विधानादिति भाव । नन्वेव सत्यन्यतरान्यतमशब्दाभ्या द्विबहुनिद्धरणावगम क्रथामिल्यत आह । स्वभावादिति ॥ एवञ्चान्यतमशब्दस्य न सर्वनामत्वमिल्याह । तत्रेति ॥ एतयोर्मद्ये इत्यर्थ । अन्यतरशब्दस्य तु डतरप्रल्ययान्तत्वा भावेऽपि सर्वादिगणे पैठिादेव सर्वनामत्वमित्युत्तप्रायम् । अथ त्वत्वेत्येकप्रातिपदिकभ्रम वारयन्। अप्रसिद्धार्थत्वाड्र्याचप्टें । त्व त्व इनि द्वावप्प्यदन्तावन्यपर्यायाविति ॥ अन्यशब्दसमानार्थकाविल्यर्थ । द्वयेोरप्प्यदन्तत्वे अन्यतरपाठवैयथ्र्य परिहरति । एक इति ॥ इत्येके इति ॥ इति कतिपये वृत्तिकृदादय मन्यन्त इत्यर्थ । 'एतत्व मन्य' इत्युदात्तत्वस्य 'उतत्व पश्यन् इल्यादावनुदात्तत्वस्यच ऋग्वेदे दर्शनादिति भाव । एकस्तान्त इति ॥ सहितापीठे त्वत् त्व इति छेदमाश्रिल्य प्रथमस्तकारान्त द्वितीय अदन्त इलयपरे मन्यन्त इल्यर्थ । अन्यथा एकक्षुला वा रवरविनिर्मुक्त वा सकृदेव पठेत्।, तावतैव द्वयोरपि लाभात् । 'त्वत्त्वसमसिमलयनुञ्चानि' इति फिट्सूत्राच । स्तरीरुत्वद्रवति सूत उत्वत् इत्यत्र गणव्याख्यावसरे वेदभाष्ये 'त्वदिति सर्वादिपठित अनुदात्तेोऽय अन्यपर्यायः ’ इत्युत्तत्वाच्च ।। * त्वदधरमधुरमधूनि पिबन्तम् ? इति जयदेवप्र योगाच । तत्र हि त्वच्छब्दोऽन्यपर्याय । त्वत अधर इति विग्रह । अन्यस्या अधर इल्यर्थ । नतु तवाधर इति विवक्षित, “पश्यति दिशि दिशि रहास भवन्तम्' इति पूर्ववाक्येनान्वयानुपपत्ते । नेम इत्यर्थे इति । वर्तत इति शेष । प्रनेमस्मिन् ददृशे सोमो अन्त ? इत्युचि तथा दर्शनादिति भाव । सम। इति ॥ सर्वशब्दसमानार्थक एव समशब्द सर्वादिलणे पठित इल्यर्थ । तुल्यपर्यायस्त्विति॥तुत्यशब्दसमानार्थक इत्यर्थ । ज्ञापकादिति ॥ अन्यथा तत्र समेषामिति निर्दिशेदिति भाव । ननु अष्टाध्यायीपठिते ‘ अन्तर बाहयोंगोपसव्यानयी ’ इति जासे सर्वनामसज्ञाविकत्पविधायके सूत्रे ‘अपुरीतिवत्तव्यम्’ इति वार्तिकपाठो भाष्ये दृश्यते । एवञ्चान्तरा पुयै इत्यत्र जसि सर्वनामसञ्ज्ञानिषेधऽपि, अन्तराया पुरीत्यत्र तन्निषेधाभावात् अन्तरस्यामिति स्यादित्यत आह । गणसूत्र इति ॥ यद्यपद वार्तिक जसि विकल्पविधिप्रकरणे पठित, तथाप्यन्तर बहिरिति गणसूत्रस्यैवाय शेषः । नत्वष्टाद्ध्यायीपाठितस्य अन्तर बहिरिति
पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/140
दिखावट