সন্ধকতামূ] बालमनोरमा t हल्संज्ञायाम् ।। * हलन्त्यम्' (सू १) । उपदेशेऽन्त्यं हलित्स्यात् । उपदेश आद्योच्चारणम् । ततः * अण्’ ‘अच्’ इत्यादिसंज्ञासिद्धौ । ३ । उपदेशेऽजनुनासिक इत । (१-३-२) भाविना वर्णना सज्ञेलेवलभ्येत। ततश्च हल्प्रत्याहारे अकारादीनामपि ग्रहण स्यात्। अन्त्यलकारात्पूर्वभावित्वाविशेषात् । अन्त्येनेत्यभावे तु आदिरिता सहचार्यमाण आदे ऊर्दूभाविना वर्णाना सज्ञेत्येव लभ्येति । ततश्च अच्प्रत्याहारे हकारादनामपि ग्रहणपति । आदेरकारादूईभावित्वाविशेषात् । उभयोपादाने तु मध्यगानामिति लभ्येत इत्यदोष । परस्मिन् सति यस्मात्पूर्वो नास्ति स आदि । पूर्वस्मिन् साति यस्मात्परो नास्ति सोऽन्त्य इति भाष्ये आद्यन्तशब्दार्थनिर्वचनेन आद्यन्तयेोर्मछद्यगाविनाभूतत्वेन ताभ्या मद्ध्यगानामाक्षेपातू । यद्यपि द्रयेोरप्प्याद्यन्तशब्दो सम्भवत । उत्तनिर्वचनाविरोधात्। तथापि नेह द्वयोराद्यन्तशब्दो भवत । तथा सति हि अन्त्येनेता सह उचार्यमाण आदि स्वस्य आदे सज्ञेत्येव लप्येत । उत्तरीत्या स्वशब्देन अन्त्यस्य परामशीसम्भवात्। ततश्च उण् इत्युकारस्य सल्लेति पर्यवस्येत् । तत्र एकस्य वर्णस्य वर्णद्वयात्मकसज्ञाविधान व्यर्थमापद्येत । गौरवातू । प्रत्याहाराणा व्यवहारलाघवार्थत्वात् । अतेा मछद्यमसत्व एवात्र, आद्यन्तशब्दाविति, ताभ्या मध्यगानामेति, लभ्यते । इतेति । किं अम् प्रत्याहार जमडणेति मकारेण माभूत । नौचवमपि सुट् प्रल्याहार टा ३ति टकरेण कि न स्यात् । टान्तसमुदायापेक्षया तस्य अन्त्यत्वादिति वाच्यम् । प्रथमतिक्रमणे कारणाभावेन सुट्प्रत्याहारस्य औटष्टकारेणैव ग्राह्यत्वात् । उत्तः च जैमिनिना । प्रथम वा नियम्यत कारणस्यानतिक्रमात्। इति । विस्तरभयाद्विरम्यते । इति हल्संज्ञायामिति । हल्सूत्रे लकारस्य हलन्त्यमित्यावृत्तप्रथमसूखेण इत्सज्ञाया सल्यामादिरन्त्येनेति हल्सज्ञासिद्धी चतुर्दशसूत्रयामन्त्यणकारादिवर्णाना हल्त्व सिद्धमित्यर्थ । तत किमित्यत आह । हलन्त्यम् ॥ अावृत्तयोर्द्वितीय सूत्रमेतत् ॥ हल् अन्त्यमिति च्छेद ॥ हल्शब्दो नपुंसकलिङ्गोऽप्यस्ति । अन्त्यमिति नपुसकसामानाधिकरण्यात् । उपदेशेऽजनुनासिक इदिति पूर्वसूत्रादुपदेश इति इदिति चानुवर्तते । तदाह ॥ उपदेशेऽन्ल्यमिल्यादिना ॥ धातुप्रातिपादिकानिपातप्रत्याहारसूत्रप्रत्ययादेशागमानामन्यमिति भाष्यम् । अथ कोऽयमुपदेशो नाम । तदाह । उपदेश आद्योच्चारणमिति ॥ उपशब्द आद्यर्थक । दिशिरुचारणक्रियायाम् । भावे घनिति भाव । एतच आदेऽच उपदेशे इत्यादि सूत्रे भाष्ये स्पष्टम् । धातुसूखगणेोणादिवाक्यलिङ्गानुशासनम्। आगमप्रल्ययादेशा उपदेशा प्रकीर्तिता । इति । प्राचीनकारिका तु प्रौढमनोरमाया बहुधा दूषिता । उपदेश किम्। इदमस्थमुरिति थमुप्रत्यये उकारस्योचारणथैस्य निवृत्तौ मकारस्य प्रत्ययान्तत्वेऽपि इत्सञ्ज्ञा माभूत् । तदेव हलन्ल्यमित्यावृत्तद्वितीयसूत्रेण चतुर्दशसूत्रयामन्त्यणकारादिवर्णाना इत्सञ्ज्ञा सिद्धेति स्थितम् । तत किमित्यत आह । ततः अण् अच् इल्यादिसंज्ञासिद्धाविति ॥ तत णकारादीनामित्सञ्ज्ञासिद्ध्यनन्तर आदिरन्त्येनेत्यणादिसञ्ज्ञा सिद्धेत्यथै । लण्सूत्रे अकारश्चेति प्रतिज्ञात । तस्य अकारस्य अनन्त्यत्वादहल्त्वाच्च हलन्त्यमिति इत्सञ्ज्ञायामप्राप्ताया तत्प्रापक सूत्रमाह । उपदेशे ॥ सञ्ज्ञाप्रस्तावात्सञ्ज्ञेति
पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/14
दिखावट