o o सिद्धान्तकौमुदीसहिता [स्वादिसन्धि १६४ । प्रथमयोः पूर्वसवर्णः । (६-१-१०२) अक प्रथमाद्वितीययोरचि परे पूर्वसवर्णदीर्घ एकादेश स्यात्। इति प्रामे। १६५ । नादिचि ॥ (६-१-१०४) & N & अवर्णादिचि परे न पूर्वसवर्णदीर्घ । ‘आदृष्ण “ (सू६९) । 'एड पदान्तादति’ (सू८६) शिवोऽच्र्य । 'अत ' इति तपर किम् । देवा अत्र । *अति' इति तपर किम् । श्व आगन्ता । ५ अप्लुतान् ' किम । एहि सुस्रोत३ च । शिवर् अच्यै इति स्थिते । अतो रो' ॥ ऋत उदिल्यत उदित्यनुवर्तते । अत इति पञ्चमी । एड पदान्तादतीत्यत अतीत्यनुवर्तते । तदाह । अप्लुतादित्यादिना ॥ नन्वत्र उत्व बावित्वा “ भो भगो अघो अपूर्वस्य योऽशि” इति यत्व परत्वात् स्यात् । नच यत्वस्यासिद्धन्वान् उत्व निर्वाधमिति वान्यम् । कृतेऽपि यत्वे तस्य स्थानिवत्त्वेन रुत्वाद्यत्वस्य दुर्निवारत्वात् । अत आह । यत्वस्यापवाद इति ॥ यद्यपि भी भगो अघो इत्यशे उत्वन्नापवाद, तथाग्यपूर्वस्ये त्यशे उन्वमपवाद प्राप्त एव । अपूर्वकस्य रोर्यत्वे अतो रोरिल्यस्यारम्भादिति भाव । ननु उत्व प्रति रोरासिद्धत्वात् कथमुत्व तस्यल्यत आाह । उत्व प्रतीति ॥ शिव उ* अच्यै इति स्थिते । प्रथमयोः. ॥ * अकस्सवर्णे ’ इत्यत अक इति, इकोयणचीत्यत अचीति चानुवर्तते । एक पूर्वपरयेोरित्यधिकृतम् । प्रथमयेरित्यवयवषष्ठी । प्रथमाद्वितीये सुव्विभत्ती विवक्षिते । तदाह ॥ अकः प्रथमेल्यादिना ।। इति प्राप्त इति ॥ शिव उ इल्यत्र अकारस्य उकारस्य च स्थाने पूर्वसवणें अकारे प्राप्त इल्यर्थ । नादिचि ॥ न आदिति छेद । आदिति पत्रमी । पूर्वसवर्ण इल्यनुवर्तते । तदाह । अवणादिति ॥ अनेन शिव उ इत्यत्र पूर्वसवर्णदीर्घनिषेध । अाद्बुण इति ॥ शिव उ इनि स्थिते अाद्बुण इति गुण बाधित्वा पूर्वसवर्णदीर्घे प्राप्ते तस्मिनिषिद्धे सति बाधके निवृत्ते गुण पुनरुन्मिषात 'देवदत्तस्य हन्तरि हते देवदत्तस्य न पुनरुन्मज्जनम् ? इति न्यायसुतु नात्र प्रवर्तते । देवदत्ते हते सति तद्धन्तुर्हनने देवदत्तस्य न पुनरुन्मेष इति हि तदर्थ । देवदत्त हन्तुमुद्युत्तस्य हनने तु देवदतस्य उन्मेषेोऽस्लेव । प्रकृते च पूर्वसवर्णदीर्घेण गुणो न हत । किन्तु हननोद्यमसजातीय प्रसात्तिमात्र पूर्वसवर्णदीघैप्रसक्तया स्थितम् । प्रसक्ते च तस्मिन्निषिद्धे गुणेोन्मेषो निर्बाध एवेति स्वादिष्विाति सूत्रे कैयटे स्पष्टम्। 'अपवादे नििषद्धे उत्सर्गम्य स्थित 'इति न्यायश्च एतन्मूलक एव । “तौ सत्, भिद्योख्यौ नदे' इत्यादिनिर्देशाश्चात्रानुकूला इत्यलम् । एडः पदान्तादतीति ॥ शिवो अच्र्य इति स्थिते ओकारस्य अकारस्य च स्थाने पूर्वरूप ओकार । देवा अत्रेति ॥ देवास् अत्रेति स्थिते सस्य रु. । तस्य दीर्घादाकारात् परत्वादत परत्वाभावादुत्वन्न । किन्तु भो भगो इति यत्वे लोपश्शाकल्यस्येति लोप । श्र्व अगन्तेति ॥ श्वस् आगन्तेति स्थिते, सस्य रु , तस्य हृस्वाकारपरकल्याभावादुत्वन। किन्तु यत्व लोपश्च । एहोति ॥ सुखेतस् शब्द कस्य चित् सज्ञा। सम्बुद्धेर्हडयादिलोप, दूराचूते चेति टे 'छत, सस्य रु.। सुखेतर अत्रेति स्थित
पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/107
दिखावट