प्रकरणम] बालमनोरमा । ९९ एतयोविसर्गम्य सादेश म्यात्पदशब्दे परे । अधस्पदम् । शिरस्पदम् । समास इत्येव । अध पदम् । शिर पदम् । अनुत्तरपदस्थस्येलेयेव । परमशिरपदम् । कस्कादिषु च । भास्कर । । इति विसर्गसन्धिप्रकरणम।
- स्वैौजसमौट्-' (सू १८३) इति सुप्रत्यये *शिवस् अच्यै ' इति स्थिते । १६२ । ससजुषो रुः । (८-२-६६) पदान्तस्य सस्य *सजुष्ट्' शब्दस्य च रु स्यात् । जश्त्वापवादः । १६३ । अतो रोरप्लुतादप्लुते । (६-१-११३) अप्लुतादत परस्य रोरु स्यादप्लुतेऽति ।। * भोभगोअघो-' (सू १६७) इति प्राप्तस्य यत्वस्यापवादः । उत्वं प्रति रुत्वस्यासिद्धत्व तु न भवति । रुत्वमनूयोत्वविधे सामथ्र्यान् ।
मिति ॥ पदस्याध इति विग्रह । मयूरव्यसकादित्वात् समास । शिरस्पदमिति ॥ शिरस पढमिित विग्रह । सौत्रक्रममनुरुङ्ग्य पुनराह। कस्कादिषु चेति। भास्कर इति । अत इति तपरकरणादत कृकमीत्यस्य न प्रानिरिति सत्वप्राप्त्यर्थ कस्कार्दी भास्करशब्दस्य पाठ इति भाव । रूवौजसमौडिति । ससजुषी रुः ॥ ससजुषी रु इति श्छेद । * रोरि ' इति रेफलोप । सश्च सज्जृंश्च ससजुग्रै तोरिति विग्रहः । रुविधैौ उकार इत् । तत्फल त्वनुपदमेव वक्ष्यते । स इति सकारो विवक्षित । अकार उच्चारणार्थ । पदस्येत्यधिकृत सकारेण सजुषशब्देन च विशेष्यते । अतस्तदन्ताविव । सकारान्त सजुष्शब्दान्तञ्च यत् पद तस्य रुस्म्यादिति । सच अलोऽन्त्यस्येत्यन्त्यस्य भवति । ततश्च फलितमाह । पदान्तस्य सस्येति । सजुष्टुशब्दस्य चेति ॥ सजुष्शब्दान्त यत् पद तदन्तस्य षफारस्येत्यर्थ । ततश्च सजुपौ सजुष इत्यत्र पकारस्य न रुत्वम्॥ पदान्तत्वाभावात् । सजुषशब्दान्त यत्पदामति तदन्तविधिना परमसञ्जूरिल्यत्र नाव्याप्ति । नञ्च सजूरिल्यत्राव्याप्तिश्शङ्कया । व्यपदेशिवद्भावेन तदन्तत्वात् । ‘व्यपदेशिवद्भावोऽप्रातिपदिकेन्? इति, 'ग्रहणवता प्रातिपादिकेन तदन्तविधिनै? इति च, परिभाषाद्वय प्रत्ययग्रहणे यस्मादितिविषय, नतु येनविधिरिति विषयमिति 'असमासे निष्कादिभ्य ” इति सूत्र भाष्ये स्पष्टम। ननु शिवस् इति सकारस्य * झलाञ्जशोऽन्त? इति जशत्वेन दकारस्स्यात् । जश्त्वं प्रति रुत्वस्य परत्वेऽपि असिद्धत्वात् । इल्यात आह । जश्त्वापवाद इति ॥ तथा च स्त्वस्य निरवकाशत्वान्नासिद्धत्वमिति भाव । Yn YN YN तदुक्त भाष्ये। 'पूर्वत्रासिद्धे नास्तिविप्रतिषेधोऽभावादुतरस्य'इति, अपवादी वचनप्रामाण्यातू' इति