पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८२
[हल्सन्धि
सिद्धान्तकौमुदीसहिता

कुर्वन्ति' इत्यत्र णत्वे प्राप्ते तस्यासिद्धत्वादनुस्वारे परसवर्णे च कृते तस्या सिद्धत्वान्न णत्वम् ।

१२५ । वा पदान्तस्य । (८-४-५९)

पदान्तस्यानुस्वारस्य ययि परे परसवणों वा स्यान् । त्वङ्करोषि-त्वं करोषि । सय्यँन्ता-संयन्ता । सव्वॅत्सर-सवत्सर । यॅल्लोकम्-य लोकम् । अत्रानुस्वारस्य पक्षेऽनुनासिका यवला ।

१२६ । मो राजि समः कौ । (८-३-२५)

किबन्ते राजतौ परे समो मस्य म एव स्यात् । सम्राट् । १२७ । हे मपरे वा । (८-३-२६)


मकार । ननु कृन्धातोर्लट्, झि झोन्त तनादिकृञ्म्य उ, गुण रपरत्वम् । “अत उत्सार्व धातुके' उकारस्य यण् । न भकुर्छरामिति निषेधात् र्वोरुपधाया इति दीर्घो न। कुर्वन्तीति रूपम्। अत्र नकारस्य नश्चापदान्तस्येत्यनुस्वार बाधित्वा परत्वात् रपाभ्यामिति णत्व स्यात् । नच त्रिपाद्यान्नश्चापदान्तस्येत्यपेक्षया रषाभ्यामित्यस्य परत्वात्पूर्वत्रासिद्धमित्यसिद्धत्वात् अनुस्वारे सति परसवर्णे च नकारस्यैव श्रवणमिति वाच्यम् । एवमपि परसवर्णविधिना प्राप्तस्य नकारस्य रषाभ्यामिति णत्वप्राप्तेदुर्वारत्वादित्यत आह । कुर्वन्तीत्यादि । रषाभ्यामित्यपेक्षया पर सवर्णस्य परतया णत्वे कर्तव्ये अनुस्वारस्थानिकपरसवर्णस्य नकारस्यासिद्धत्वान्न णत्वमिति भाव । वा पदान्तस्य ॥ अनुस्वारस्य ययि परसवर्ण इत्यनुवर्तते । तदाह । पदान्तस्ये त्यादिना । त्वङ्करोषीति । त्वम् करोषीति स्थिते मोऽनुस्वार परसवर्णो डकार । तदभावपक्षे अनुस्वार एव श्रूयते । अत्रेति ॥ सम् यन्तेति स्थिते मोऽनुस्वार । तस्य परनिमित्तभूतय कारसवर्ण अनुनासिक एव यकारो भवति । आन्तर्यात् । तथाच सय्यॅन्तेति रूपम् । एव सव त्सर इति स्थिते अनुस्वारस्य परसवर्ण अनुनासिको वकार । सव्वॅत्सर इति रूपम् । य लोक मिति स्थिते, अनुस्वारस्य परसवर्णोऽनुनासिको लकार । यलॉन्स्पति रूपम् । परसवर्णाभाव पक्षे तु अनुस्वार एवेत्यर्थ । मो राजि ॥ म इति प्रथमान्त मोऽलम्वार इत्यत म इति स्थानषष्ठयन्तमनुवर्तते । सम इत्यवयवषष्ठी । प्रन्यग्रहणपरिभाषया क्विग्रहणेन किप्प्रत्ययान्त लाभ । तदाह । क्विबन्त इत्यादिना । म एवेति । नत्वनुस्वार इत्यर्थ । मस्य मविधान मनुस्वारनिवृत्यर्थमिति भाव । सम्राडिति । राजू दीप्तौ । सम्पूर्वात् सत्सूद्विषदुहे त्यादिना किप् । ब्रवेति षत्वम् । जश्त्वेन डत्वम् । चर्त्वम् । अत्र मोऽनुस्वारो न भवति । हे मपरे वा ॥ मोऽनुस्वार इत्यत म ति षष्ठयन्तमनुवर्तते । मो राजीत्यत. म इति प्रथमान्त मनुवर्तते । म परो यस्मादिति विग्रह । तदाह । मपरे इत्यादिना ॥ ह्मलयतीति