पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७८
[हल्सन्धि
सिद्धान्तकौमुदीसहिता


चतुर्मुख । 'प्रत्यये भाषायां नित्यम्' (वा ५०१७) । तन्मात्रम् चिन्मयम् । कथं तर्हि * मदोदग्रा ककुद्मन्त ' इति । यवादि (ग २५०) गणे दकारनि पातनात् ।

११७ । तोर्लिं । (८-४-६०)

तवर्गस्य लकारे परे परसवर्ण स्यात् । तल्लय । विद्वॉल्लिखति । नकारस्यानुनासिको लकार ।

११८ । उद्ः स्थास्तम्भ्वोः पूर्वस्य । (८-१-६१)

उद् परयो स्थास्तम्भ्वो पूर्वसवर्ण स्यात् । * आदे परस्य' (सू ४४) उत्थानम् । उत्तम्भनम् । अत्राघोषस्य महाप्राणस्य सस्य तादृश एव थकार ।


न्यायादिति भाव । प्रत्यये भाषायान्नित्यम् । वार्तिकमेतत् । भाषा लौकिकप्रयोग । तत्र प्रत्यये विद्यमाने अनुनासिके परत प्रागुक्तोऽनुनासिको निलय भवतीत्यर्थ । तन्मात्रमिति ॥ तत् प्रमाण यस्य तत्तन्मात्र ‘प्रमाणे द्वयसञ्जदन्नवन्मात्रच ' इतिं मात्रच्प्रत्यय । चिन्मयमिति ॥ नित्य वृद्धशरादिभ्य' इत्यत्र नित्यामिति योगविभागात्ताद्रूप्ये मयट् । कथं तर्हीति ॥ यदि प्रत्यये परे निलयमनुनासिकस्स्यात् तदा मदोदग्रा ककुद्मन्त इति काळिदासप्रयोग कथमित्याक्षेप । मतुप प्रत्ययत्वेन तस्मिन् परे दकारस्य अनुनासिकनकागवश्यम्भावादिति भाव । परिहरति । यवादीति ॥ यवादिगणे ककुद्मच्छब्दे दकारस्य निर्देशान्न तस्यानुनासिक । यदि तत्र दकारस्य नकार एव इष्टस्स्यात् तर्हि नकारमेव लाघवानिदिशेदिति भाव । तोर्लिं ॥ अनुस्वारस्य ययी त्यत परसवर्ण इत्यनुवर्तते । तदाह । तवर्गस्येत्यादिना । तल्लय इति । तस्य लय इति विग्रह । तद् लय इति स्थिते दस्य परसवर्ण परनिमित्तभूतलकारसवर्णो भवति । स च लकार एव । अन्यस्य तत्सावर्ण्यभावात् । अत्र नकारस्येति ॥ विद्वान् लिखतीत्यत्र विद्वान् लिखतीति स्थिते नकारस्य स्थानिन अनुनासिकस्य परसवर्णो लकारो भवन् आन्तर्यादनु नासिक एव लकारो भवतीत्यर्थ । उदस्स्थास्तम्भ्वो . ॥ ‘अनुस्वारस्य ययि परसवर्ण' इत्यत्र समासनिर्दिष्टमपि सवर्णग्रहणमिह निष्कृत्य सम्बध्द्यते । एकदेशे स्वरितत्वप्रतिज्ञानात् । उद इति पञ्चमी । अतस्तस्मादित्युत्तरस्येति परिभाषया उद परयोरिति लभ्यते । तदाह। उद:पर योरिति । पूर्वस्येति । पूर्वनिमित्तस्य उदो दकारस्य यस्सवर्ण स आदेशस्यादित्यर्थ । पूर्वसवर्णश्चायमलोऽन्त्यपरिभाषया स्यास्तम्भ्वोरन्तादेशो न भवतीत्याह । आदेः परस्येति ॥ अनया परिभाषया स्थास्तम्भवोराद्यवयवस्य सकारस्यैव भवतीत्यर्थ । उत्थानमिति ॥ ष्ठा गतिनिवृत्तौ । भावे ल्युट् । उत्तम्भनामिति ॥ ' ष्टभि प्रतिष्टम्भे' भावे ल्युट्। स्तम्भु रोधन इति श्नुविधौ निर्दिष्टस्सौत्रो वा धातु । स्थास्तम्भ्वोरिति पवर्गयोपधनिर्देशस्य उभयसाधारण त्वात् । ननु उद् स्थानमित्यत्र सकारस्य पूर्वसवर्णविधैौ पूर्वनिमित्त दकार तत्सवर्णाश्च त थ द