पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७५
बालमनोरमा



११० । अणोऽप्रगृह्यस्यानुनासिकः । (८-४-५७)

अप्रगृह्यस्याणोऽवसानेऽनुनासिको वा स्यात् । दधि-दधि । “अप्रगृह्यस्य किम्। अग्री

। इति अच्सन्धिप्रकरणम् ।


अथ हल्सन्धिप्रकरणम् ।

१११ । स्तोः श्चुना श्चुः । (८-४-४०)

सकारतवर्गयो शकारचवर्गाभ्यां योगे शकारचवगौ स्त. । हरिश्शेतेरामश्चिनोति । सच्चित् । शार्ङ्गिञ्जय ।


ग्रहणसामर्थ्यात् लुप्तसप्तम्यर्थमात्रे पर्यवसन्नमित्यथो विवक्षित । ततश्च समासवृत्तौ लुप्तसप्तमीके ईदूदन्तपूर्वपदे सप्तम्यर्थमतिलङ्घय उत्तरपदार्थे प्रवृत्ते सति प्रगृह्यसज्ञा न भवति । मा भूदिति । माडि लुड् सर्वलकारापवाद । वाप्यामश्वो वाप्यश्व इति ॥ वाप्या अश्व इति विग्रहे सुसुपेति समासे वाग्यश्च इति रूपमित्यर्थ । अत्र वाप्यामिति सप्तम्या अधि करणत्वमवगतम् । तच्चाधिकरणकारक क्रियापेक्षम् । तत्र वाग्यामश्वो वर्तत इति क्रियाद्याहारे वर्तमानक्रियाया वाग्या अधिकरणत्वेन अश्वस्य कर्तृत्वेनान्वयात्तयो परस्परमन्वयाभावाद सामर्थ्यात् समासो नोपपद्यते । वाग्या विद्यमानेोऽश्व इति विद्यमानपदस्याद्याहारेऽपि अश्वपदे नासामर्थ्यात् समासो न सम्भवति । अत वाग्यामित्यस्य वाप्या विद्यमाने अश्व लक्षणया प्रवृत्ति पुरस्कृत्य समासो वक्तव्य । एवञ्च समासे लुप्तसप्तमीकस्य वापीशब्दस्य सप्तम्यर्थमातिलङ्कय तत्ससृष्टे आधेयभूते अश्वेऽपि प्रवृत्तस्सप्तम्यर्थमात्रविश्रान्त्यभावान्नप्रगृह्यत्वमिति भाव । अणोऽप्रगृह्यस्य ॥ वा अवसान इत्यनुवर्तते । तदाह । अप्रगृह्येत्यादिना ॥ अत्र अण् पूर्वे णैव णकारेण व्याख्यानात् । ततश्च कर्तृ इत्यत्र नानुनासिक । इत्यच्सन्धीति । अत्पाच् तरमिति सिद्धमनच्त्वादिति कथमनच्त्वमिति च सूत्रवार्तिकभाष्यप्रयोगादेवञ्जातीयस्थलेषु असन्देहार्थ सन्ध्यभावोऽभ्यनुज्ञात । अतोऽत्र कुत्वचुत्वयोरभावेऽपि न दोष । स्तोश्चुना श्चु. ॥ स्च तुश्चेति समाहारद्वन्द्व पुस्त्वमार्षम् । इतरेतरयोगद्वन्द्वो वा तथासत्येक वचनमार्षम् । एव श्चुना श्चुरित्यत्रापि श्चुनेति सहार्थे तृतीया । योगे इत्यद्याहार्यम् । ततश्च सहशब्दयोगाभावेऽपि तदर्थस्य गम्यत्वात्तृतीया युज्यते । अस्मादेव निर्देशात् । तदम्ह । सका रतवर्गयोरित्यादिना । अत्र स्थान्यादेशाना यथासख्य भवति । ततश्च सकारस्य शकार तवर्गस्य चवर्ग । तत्रापि त थ द ध नाना क्रमेण च छ ज झ जा इति फलितम् । त थ द ध नेत्यादि क्रमस्यायनादिलोकसिद्धत्वात् । श्चुना योगे इत्यत्र न यथासख्यमित्युत्तरसूत्रे वक्ष्यते । ततश्च सकारस्य तवर्गस्य शकारेण चवर्गेण च यथासम्भव योगे श्चुत्व भवति । रामश्शेते इति ॥ रामस् शेत इति स्थिते शकारेण योगात् सकारस्य शकार । श्चुना योग इत्यत्र न य थासङ्खयभित्यस्य प्रयोजन दर्शयितु सकारस्य चकारयोगेऽप्युदाहरति । रामश्चिनोतीति ॥