पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७४
[अच्सन्धि
सिद्धान्तकौमुदीसहिता


१०८ । मय उञो वो वा । (८-३-३३)

मय परस्य उञो वो वा स्यादचि । किमु उक्तम्-किम्वुक्तम्। वस्यासिद्धत्वान्नानुस्वार ।

१०९ । ईदूतौ च सप्तम्यर्थे । (१-१-१९)

सप्तम्यर्थे पर्यवसन्नमीदूदन्तं प्रगृह्यं स्यात् । सोमो गौरी अधिश्रित । मामकी तनू इति । 'सुपां सुलुक्-' (सू ३५६१) इति सप्तम्या लुक् । अर्थ ग्रहणं किम् । वृत्तावर्थान्तरोपसक्रान्ते मा भूत् । वायामश्वो वायश्च ।


ऊँ इयेकमेव सूत्र विभज्य व्याख्यातम् । एकसूत्रत्वे तु उण इतौ परे ऊँ इत्य दीर्घऽनु नासिक प्रगह्यश्चादेशश्शाकत्यमते स्यात् । तदभावपक्षे तु निपात एकाजिति नित्य प्रगृह्यत्व मित्येतावल्लम्येत । ततश्च ऊँ इति उ इतीति रूपद्वयमेव स्यात् वितीति रूप न लभ्येत । अतो विभज्य व्याख्यातम् । मय उञो वो वा ॥ मय इति पञ्चमी उन इति षष्ठी ‘डमो हूस्वादचि' इत्यत अचीत्यनुवर्तते । तदाह । मयः परस्येत्यादिना । किम्वुक्तमिति ॥ किमु उक्त मिति स्थिते मकारादुकारस्य उणो निपात एकाच्’ इति नित्य प्रगृह्यत्वात् प्रकृतिभावात् यणभावे प्राप्से वत्ववचनमिदम् । ननु तर्हि इको यणचीत्यनन्तरमेव मय उञो वेति पठितव्यम् । वग्रहणाभावेन लाघवात् । त्रिपाद्या पाठे वग्रहणस्यापि कर्तव्यत्वेन गौरवादित्यत आह । वत्वस्येति ॥ यदि षष्ठस्य प्रथमे पादे इको यणचीत्यत्रैव मय उणो यणादेशविकल्पो विधीयेत । तर्हि किम्बुक्तमित्यत्र मोऽनुस्वार इति मकारस्य वकारे परे अनुस्वारस्यात् । त्रिपाद्या वत्वविधौ तु तस्यासिद्धत्वान्नानुस्वार । त्रिपाद्यामनुस्वारविद्यपेक्षया वत्वविधे परत्वा दिति भाव । ईदूतौ च ॥ प्रगृह्यमित्यनुवर्तते । तच्च द्विवचनान्ततया विपरिणम्यते । शब्द स्वरूपस्य विशेष्यत्वात्तदन्तविधि । ईदूतौ च सप्तम्यावित्येव सिद्धे अर्थग्रहणाद्यत्र सप्तम्या लुकि ‘यश्सिष्यते स लुप्यमानार्थाभिधायी’ इति न्यायेन प्रकृतेरेव सप्तम्यर्थे पर्यवसान तथाविध त्वमीदूदन्तयोर्गम्यते । तथाच सप्तम्यर्थे पर्यवसन्नावीदूदन्तौ शब्दौ प्रगृह्यौ स्त । इत्यक्षरार्थ । फलितमाह । सप्तम्यर्थ इत्यादिना । सोमो गौरी अधिश्रित इति ॥ गौर्यामित्यर्थ । सुपा सुलुगिति सप्तम्या लुक् । प्रगृह्यत्वे प्रकृतिभावान्न यण् । वातप्रमीयादिसप्तम्यन्तन्तु नात्रो दाहरणम् । तत्र सप्तम्या लुप्तत्वाभावेन प्रकृतेस्सप्तम्यर्थे अप्रवृत्ते । मामकी तनू इति । मामक्यान्तन्वामित्यर्थ । सुपा सुलुगिति सप्तम्या लुक् । प्रगृह्येभ्य परत इतिशब्दप्रयोगस्य पदकारैर्नियमितत्वात् । पदपाठे मामकी इति तनू इतीत्यत्र प्रगृह्यत्व फलमत्र बोद्यम् । नषु ईदूतौ च सप्तम्या इत्येव सूत्रयताम् । षष्ठयाच अर्थद्वारा सम्बन्धो विवक्ष्यताम् । ततश्च सप्तम्यर्थे विद्यमानमीदूदन्तमित्यर्थस्य अर्थग्रहण विनैव लाभादर्थग्रहण किमर्थमिति पृच्छति । अर्थग्रहणं किमिति । कस्मै प्रयेोजनायेत्यर्थ । किमित्यव्ययम् । वृत्ताविति ॥ अर्थ