पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८
[अच्सन्धि
सिद्धान्तकौमुदीसहिता


अशूद्रविषये प्रत्यभिवादे यद्वाक्यं तस्य टे. प्लुत स्यात् । स चोदात्त । अभिवादये देवदत्तोऽहम् । आयुष्मान् भव देवदत्त ३ । 'स्त्रिया न' (वा ४८६४) । अभिवादये गार्ग्यहं । आयुष्मती भव गार्गि । नाम गोत्रं वा यत्र प्रत्यभिवाद्वाक्यान्ते प्रयुज्यते तत्रैव प्लुत इष्यते । नेह । आयुष्मानेधि । * भोराजन्यविशां वेति वाच्यम्’ (वा ४८६५) । आयुष्मानेधि भो ३ । आयु ष्मानेधीन्द्रवर्म ३ न् । आयुष्मानेधीन्द्रपालित ३ ।

९५ । दूराद्धूते च । (८-२-८४)

दूरात्सम्बोधने यद्वाक्यं तस्य टे प्लुत स्यात् । सक्तून्पिब देवदत्त ३ ।


प्लुतप्रतिषेधो भवतीति वक्तव्यमित्यर्थे । ततश्शूद्रविषये उदाहृतम् । स्त्रीविषये वार्तिक विभ ज्यार्थतस्सङ्गृह्णाति । स्त्रियान्नेति ॥ स्त्रीविषयकप्रत्यभिवादवाक्ये उक्तो विधिर्नभवतीत्यर्थ ।

अभिवादये गार्ग्यहमिति अभिवादनवाक्यप्रदर्शनम् । आयुष्मती भव गार्गीति प्रत्यभि

वादवाक्य, अत्र न प्लुत । असूयके तु उदाहरण भाष्ये स्फुटम् । यद्यपि गार्गीति नाम न भवति । किन्तु गोत्रमेव । तथापि भाष्ये गार्गीशब्दोदाहरणादेव अभिवादप्रत्यभिवादवाक्ययो र्नाम्नो गोत्रस्य च विकल्प । तदाह । नाम गोत्रं वेति ॥ अत्र नामशब्देन द्वादशेऽहनि पिता नाम कुर्यादिति विहित नामैव गृह्यते । अत एव आयुष्मान् भव दण्डिन्नित्यादौ प्लुतो नेति भाष्ये स्पष्टम् । नाम गोत्र वेति परिगणनस्य प्रयोजनमाह । नेहेति । आयुष्मानेधीति ॥ अस्तेस्सिप् हि घ्वसोरियेत्व हेर्द्धिं । श्र्नसोरोप । अत्र धकारादिकारस्य न प्लुत । अनामत्वादगोत्रत्वाच्च । भोराजन्यविशाम् ॥ भोस् शब्दस्य राजन्यवैश्यवाचकनाम्रोश्च टे प्लुतो वा स्यादिति वक्तव्यमित्यर्थ । भोस् शब्दस्य अप्राप्ते इतरयोस्तु नामत्वात् प्राप्ते विभाषेयम् तत्र भेोस् शब्दे यथा । “आयुष्मानेधि भो । आयुष्मानेवि देवदत्त भो ' इति भाष्यम् । अतएव प्रत्यभिवादवाक्यान्ते नाम्नोऽनन्तर भोश्शब्दस्य भवशब्देन एधिशब्दस्य च प्रयोग विकल्पो गम्यते । राजन्ये यथा। आयुष्मानेधि इन्द्रवर्म ३ न्, इन्द्रवर्मन् । वैश्ये यथा । आयुष्मा नेधि इन्द्रपालित ३ । इन्द्रपालित इति भाष्यम् । अतएव भाष्यात् प्रत्यभिवादवाक्ये शर्मान्त ब्राह्मणस्य वृर्मान्त क्षत्रियस्य पालितान्त वैश्यस्येति विवयोऽपि प्रवर्तन्त इति गम्यते । उक्त भाष्यमन्वादिस्मृतिविरोधाद्विकल्प । अत्र भाष्ये अपर आहेत्युक्ता प्रत्यभिवादे सर्वस्यैव नाम्नो भोश्शब्द आदेशो वक्तव्य इति पठित्वा आयुप्मानेधि भो इत्येतावदेव सर्वत्र प्रत्यभिवाद वाक्यमित्युक्तम् । दूराद्धूते च ॥ यत्र प्रदेशे स्थितस्य प्रयत्नोच्चारित शब्द बोद्यमानो न श्रृणोति किं त्वधिक प्रयत्नमपेक्षते तद्दूर, हृतमाह्वान भावे क्त । सम्बोधनमिह विवक्षित। वाक्यस्य टे प्लुत उदात्त इत्याधिकृतम् । तदाह । दूरात्सम्बोधन इत्यादिना ॥ यदि तु आह्या नमेवात्र विवक्षित स्यात् तर्हि एहि देवदत्तेत्यादौ आह्वानवाचकपदे सत्येव स्यात् । सम्बोधन