पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६६
[अच्सन्धि
सिद्धान्तकौमुदीसहिता


स्थितम् । चक्रि अत्र-चक्रन्यत्र । “ पदान्ता ' इति किम् । गौयौं । “ न समासे (वा ३६८४) । वाप्यश्च । 'सिति च' (वा ३६८४) । पार्श्वम् ।

९२ । ऋडत्यकः । (६-१-१२८)

ऋति परेऽक प्राग्वत् । ब्रह्मऋषि'—ब्रह्मर्षि । * पदान्ता ' इत्येव । आर्च्र्छत् । समासेऽप्ययं प्रकृतिभाव । सप्त ऋषीणाम्-सप्तर्षीणाम् ।

९३ । वाक्यस्य टेः प्लुत उदात्तः । (८-२-८२)


वाप्यामश्च इति विग्रह । शैौण्डादेराकृतिगणत्वात् सुग्सुपेति समास । सिति च ॥ सकार इत् यस्य स सित् तस्मिन् परे उक्तश्शाकलविधिर्नभवतीत्यर्थ । पाश्वमिति ॥ पर्शुx पार्श्वा स्थि । पशूना समूह पार्श्व “पश्वा णस् वक्तव्य ' इति णस् । आदिवृद्धि । यणादेश । अत्र पर्शु अ इति स्थिते उक्तश्शाकलो विधिर्नभवति । ओर्गुणस्तु न । भस्येव तद्विधानातू । सिति चेति पदत्वेन भत्वबावान् अञ्चो ञ्णितीति वृद्धिरपि न भवति । आदिवृद्या तद्वाधात् । तथाच मूलकारो वक्ष्यति । “ आदिवृद्धिरन्तोपवावृद्धी बाधते' इति । अत्र 'सिन्नित्यसमासयोश्शाकल प्रतिषेध ’ इति वार्तिकम् । तादिह द्विधा विभज्य व्याख्यातम् । नचैव सति वाग्यश्व इत्यत्र कथ शाकलप्रतिषेध । तत्र समासस्य वैकल्पिकत्वादिति वाच्यम् । भाष्ये नित्यग्रहणस्य प्रत्याख्यातत्वात् । ऋत्यकः ॥ अक इति षष्ठी । शाकल्यस्य ह्रस्वश्चेत्यनुवर्तते । असवर्ण इति निवृत्तम् । अचीत्यनुवर्तते । एड पदान्तादित्यत पदान्तादित्यनुवर्तते । तच्च षष्ठयन्ततया विपरिणम्यते । तत पदान्तस्य अक ऋति ह्रस्वो वा स्यादित्येक वाक्य सम्पद्यते । चकारात् प्रकृत्येत्यनुकृष्यते उक्तो ह्रस्व प्रकृत्या अवतिष्ठत इति द्वितीय वाक्य सम्पद्यते । तदाह । ऋति परे अकः प्राग्वदिति । ब्रह्म ऋषिरिति ॥ ब्रह्मा ऋषिरिति स्थिते आकारस्य हूस्व प्रकृतिभावश्च । ततश्च आद्गुणइति रपर अकारो न भवति अत्र आकारस्य इक्त्वाभावादिकोऽसवर्णे इत्यप्राप्त इद वचनम् । ब्रह्मर्षिरिति ॥ उक्तहूस्व समुचितप्रकृतिभावाभावपक्षे आद्गुण इति अकार । रपरत्वम् । ‘ऋत्यस्य’ इत्येव तु न सूत्रितम् । होतृ ऋकार इत्यत्र प्रकृतिभावार्थमग्ग्रहणस्यावश्यकत्वात् । पदान्ता इत्येवेति ॥ पदान्तग्रहणमत्राप्यनुवर्तनीयमेवेत्य र्थ । आच्छंदिति ॥ ऋ गतौ । लड़ तिप् शप् पाघ्रा ध्मेति ऋच्छादेश , इतश्चेति इकारलोप, आडजादीनामित्याडागम , आटश्चेति वृद्धि, आ ऋच्छादिति स्थिते आकारस्य अक पदान्तत्वाभावान्नोक्त प्रकृतिभाव । न समास इति पूर्वसूत्रस्थ निषेधवार्तिकमिह न सम्बध्द्यत इत्यत आह । समासेऽपीति । सप्त ऋषीणा मिति ॥ दिक्सख्ये सज्ञायामिति समास । सप्त ऋषीणामिति प्रकृतिभावपक्षे रूपम् । तद भावपक्षे तु आद्गुण इति गुणे रपरत्वे सप्तर्षीणामिति भवति । अथ प्लुतप्रगृह्या इति सूत्रा काक्षितप्लुतप्रगृह्ययोर्मध्ये प्रथमोपात्तप्लुतप्रकरणमारभते । वाक्यस्य टेः ॥ पदस्येत्यधिकृतम्।