पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
'
'६३
बालमनोरमा

प्रकरणम्]


ऋकार सावर्ण्यान् । होतृकार । * ऋति ऋ वा' * लृति लृ वा' इत्यु भयत्रापि विधेय वर्णद्वयं द्विमात्रम् । आद्यस्य मद्धये द्वौ रेफौ तयोरेका मात्रा । अभितोऽज्भक्तेरपरा । द्वितीयस्य तु मध्ये द्वौ लकारौ शेष प्राग्वन् । इहोभय त्नापि * ऋत्यक ' (सू९२) इति पाक्षिक प्रकृतिभावो वक्ष्यते ।

८६ । एडः पद्मान्तादति । (६-१-१०९)

पदान्तादेडोऽति परे पूर्वरूपमेकादेश स्यात् । हरेऽव । विष्णोऽव ।

८७ । सर्वत्र विभाषा गोः । (६-१-१२२)

लोके वेदे चैडन्तस्य गोरति वा प्रकृतिभाव स्यात्पदान्ते । गो अग्रम् गोऽग्रम् । “ एडन्तस्य' किम् । चित्रग्वग्रम् । * पदान्ते किम् । गो ।


होतृकार इत्येवोदाहृत भाष्ये । अथ ऋति ऋवा, लृति लृवेत्यत्र विधेय वर्णरूप विविनक्ति । ऋति ऋ वा लृति लृवेत्युभयत्रापि विधेयं वर्णद्वयं द्विमात्रमिति ॥ तदेवोपपादयति । आाद्यस्य मद्धय इति । एका मात्रेति । व्यञ्जनानामर्द्धमात्रतया एकैकस्य रेफस्य अर्द्धमात्रत्वादिति भाव । अभितोऽज्भक्तरिति ॥ इत्यनन्तर रेफाविति शेष । अभ्जक्त्तेरिति सामान्याभिप्रायमेकवचनम् । रेफद्वयस्य पुरस्तादुपरिष्टाच विद्यमानयो ह्रस्वऋकाराशयोरन्या मात्रेत्यर्थ । द्वितीयस्य त्विति ॥ विधेयस्येति शेष शेषं प्राग्वदिति ॥ लकारयोरेका मात्रा तावभितो विद्यमानयो लृकाराशयोरन्या मात्रे त्यर्थ । एतच्च तुल्यास्यसूत्रे भाष्यकैयटयो स्पष्टम् । एतेन दीर्घ प्राप्ते हूस्व ऋकार लृकार श्चात्र विधीयत इति प्राचीनग्रन्थ परास्त । पाक्षिक इति ॥ वैकल्पिक इत्यर्थ । प्रकृति भाव इति ॥ निर्विकारस्वरूपेणावस्थानमित्यर्थ । सन्त्यभाव इति यावत् । एङः पदान्ता दति ॥ अमि पूर्व इत्यत पूर्व इत्यनुवर्तते एक पूर्वपरयोरित्यधिकृतम् । तदाह । पदान्ता दित्यादिना ॥ हरे अव इति स्थिते अयादेश बाधित्वा पूर्वरूपमेकार । विष्णो अवेत्यत्र अवादेश बाधित्वा पूर्वरूपमोकार । सर्वत्रविभाषा । पदान्तादित्यनुवर्तते । प्रकृत्यान्त पाद मित्यत प्रकृत्येत्यनुवर्तते । प्रकृत्या स्वभावेन निर्विकारस्वरूपेण अवतिष्ठत इत्यर्थ । यजुष्युर इत्यतो यजुषीति निवृत्तम् । तत्सूचनाय सर्वत्रेत्युपात्तम् । तेन लोके वेदेचेति लभ्यते । तदाह । लोक इत्यादिना । प्रकृतिभाव इति ॥ स्वभावेनावस्थानमित्यर्थ । एवञ्च पूर्वरूप मवादेशश्च न । गो अग्रमिति प्रकृतिभावे रूपम् । पूर्वरूपे गोऽग्रमिति । अत्र एड इत्यप्यनुवर्तते । ततश्च एकदेशविकृतमनन्यवद्रवतीति न्यायेन चित्रग्वग्रमित्यत्र नातिप्रसङ्ग । हे चित्रगोऽग्र मित्यत्रापि न प्रकृतिभाव । प्रतिपदेोक्तस्यैव एडो ग्रहणात् । प्रकृते च ह्रस्वस्य गुण इत्यो कारस्य लाक्षणिकत्वात् । गोरिति । गो अस् इति स्थिते इत्योकारस्य पदान्तत्वाभा

वान्न प्रकृतिभाव । नचैवमपदान्तत्वादेड पदान्तादिति पूर्वरूपमपि दुर्लभमिति वाच्यम्। अत