पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६०
[अच्सन्धि
सिद्धान्तकौमुदीसहिता

८० । ओोमाङोश्च । (६-१-९५)

ओमि आडि च आत्परे पररूपमेकादेश स्यात् । शिवायो नम । शिव एहि-शिवेहि

८१ । अव्यक्तानुकरणस्यात इतौ । (६-१-९८)

ध्वनेरनुकरणस्य योऽच्छब्दस्तस्मादितौ परे पररूपमेकादेश. स्यात् । पटत् इति पटिति । * एकाचो न' (वा ३६३७) श्रदिति ।

८२ । नात्म्रेडितस्यान्त्यस्य तु वा । (६-१-९९)


दृषि । मृत अण्ड इति स्थिते सवर्णदीर्घ बाधित्वा अनेन पररूपम् । तत अपत्ये आणि मार्त ण्ड “परामार्ताण्डमास्यत्” इति सवर्णदीर्घस्तु च्छान्दस । ओत्वोष्ठयोः ॥ अवर्णात् ओतुशब्दे ओष्ठशब्दे च परे पूर्वपरयोरचो पररूप वक्तव्यमित्यर्थ । स्थूलोतुरिति । “ओतुर्बिडालो मार्जार इत्यमर ” स्थूल ओतु इति स्थिते वृद्धि बाधित्वा पाक्षिक पररूपम् । बिम्बोष्ट इति ॥ बिम्बफलवत् रक्तवर्णौ। ओष्ठौ यस्येति विग्रह । ओमाङोश्च ॥ ओ च आङ्चेति विग्रह । आदिति पररूपामिति चानुवर्तते, एक पूर्वपरयोरिति च । तदाह । ओमीत्यादिना । शिवा योन्नम इति । अत्र वृद्धि बाधित्वा पररूपम् । शिवेहीति ॥ आ इहीति स्थिते गुणे एहीति रूपम् । तत शिव एहि इति स्थिते वृद्धि वाधित्वा पररूपमेकार । नच शिव आ इहाति स्थिते सवर्णदीर्घे कृते पश्चादुणे शिवेहीति रूपसिद्धेराङ्ग्रहण व्यर्थमिति वाच्यम् । “ धातूपसर्गयो कार्यमन्तरङ्गम्’ इति न्यायेन प्रथम आद्गुण इति कृते शिव एहीति स्थिते वृद्धौ प्राप्ताया तन्नि वृत्यर्थत्वात् । भाष्ये तु, आ ऋश्यात्,गुण अर्श्यान्, अद्य अर्श्यात् अद्यर्श्यादित्यत्र सवर्णदीर्घनिवृ त्यर्थ आड्ग्रहणमिति स्थितम् । अव्यक्तानुकरणस्य ॥ पररूपमित्यनुवर्तते । अव्यक्त अस्फु टवर्णविभाग वृक्षपतनादिजनितध्वनि । तस्यानुकरण तत्प्रतिपादकस्तत्सदृश अपरिस्फुटवर्णवि भागश्शब्द तस्यावयव य अत्शब्द तस्मात् इतिशब्दे परे अतूशब्दस्य इकारस्य च स्थाने पररूप स्यादित्यर्थ । अत्र इतिशब्दे य प्रशम इकार तस्मिन्परे इति व्याख्येयम् । अन्यथा इतिशब्दस्य कृत्न्नादेशप्रसङ्गात् । तदाह । ध्वनेरित्यादिना ॥ अत्र अलोऽन्त्यस्येति न भवति । “नानर्थकेऽलोऽन्त्यविधि ' इति निषेधात् । पटत इतीति प्रक्रियावाक्यप्र दर्शनम् ।. न तु पररूपाभावपक्षे रूपमिति भ्रमितव्य । अत्र पररूपस्य नित्यत्वात् । असहिताया निर्देशो वा । पटितीति । उदाहरणमेतत् । वृक्ष पतित इत्याद्यद्याहार्यम् । अत्र अनेकाज्ग्रहण कर्तव्यमिति वार्तिकमर्यतस्सङ्गृह्णाति । एकाचो नेति । एक अच् यस्य स एकाच् तथाभूतस्यानुकरणस्य उक्त पररूप नेत्यर्थ। श्रदितीति । अत्र एकाच्त्वात् न पर रूपम् । ननु पटत् पटत इत्यत्र पटत्पटेति रूपमिध्यते । तत्राव्यक्तानुकरणस्येति पररूपे पटत् पटिति इत्येव स्यात् । तत्राह । नाम्रेडितस्य ॥ अव्यक्तानुकरणस्यात इताविति पररूप मिति एक पूर्वपरयोरिति चानुवर्तते । आम्रेडितस्य अव्यक्तानुकरणस्य अवयव य अत्शब्द