पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५८
[अच्सन्धि
सिद्धान्तकौमुदीसहिता


७८ । एङि पररूपम् । (६-१-९४)

अवर्णान्तादुपसर्गादेडादौ धातौ परे पररूपमेकादेशस्स्यात्। प्रेजते । उपोषति। इह * वा सुपि' इत्यनुवर्त्य वाक्यभेदेन व्याख्येयम् । तेनैडादौ सुब्धातौ वा । उपेडकीयति-उपैडकीयति।प्रोघीयति-प्रौधीयति । एवे चानियोगे' (वा ३६३१) नियोगोऽवधारणम् । क्वेव भोक्ष्यसे । अनवकलृत्प्रावेवशब्द । * आनियोगे

किम् । तवैव । ७९ । अचोऽन्त्यादि टेि । (१-१-६४)


वृध्द्यभावपक्षे गुण लपरत्वम् । तपरत्वादिति ॥ ऋतीति तपरकरणेन तत्कालस्यैव ग्रह्णात्। दीर्घऋकारे परे वृद्धिविकल्पोऽयन्नभवति । किन्तु गुण । ऋकारीयतीति ॥ ऋकारमात्मन इच्छतीत्यर्थे क्यजादि पूर्ववत् । वृद्वद्यभावादत्र गुण एव । एङि पररूपम् ॥ उपसर्गादिति धाताविति चानुवर्तते । आदित्यनुवृत्तमुपसर्गादित्यस्य विशेषणमिति तदन्तविधि । यस्मिन् विधिरिति परिभाषया तदादिग्रहणम् । एक पूर्वपरयोरिति चाधिकृतम् । तदाह । अवर्णान्तादित्यादिना । एकादेश इति । पूर्वपरयोरिति शेष । प्रेजत इति ॥ एजू दीप्तौ । प्र एजते इति स्थिते वृद्धिरेचीति वृद्धि बाधित्वा अनेन पररूपम् एकार । एजृ कम्पन इति तु परस्मैपदी । उपोषतीति ॥ उष दाहे, लट्, तिप्, शप् , लघूपधगुण । उप ओषतीति स्थिते वृद्धिं बाधित्वा अनेन ओकार । ननु एडको मेष, तमात्मन इच्छति एडकी यति, उप एडकीयतीति स्थिते अनेन नित्यमेव पररूप स्यात् । इष्यते तु वृद्धिरपि उपेडकीयति उपैडकीयतीति । तत्राह । इहेति ॥ एडि पररूपमित्यत्र वा सुपीत्यनुवर्तते । तच्च नैकवाक्यतया सम्बद्धद्यते । तया सति, अवर्णान्तादुपसर्गादेडादौ सुब्धातौ परे पररूपमेकादेशस्यादित्येवार्थ स्स्यात् । एव सति प्रेजते उपोषतीत्यत्र नित्य पररूप न स्यात् । अतो वाक्यभेदेन व्याख्येयम् । एडि पररूपमिति प्रथम वाक्यम् । अवर्णान्तादुपसर्गादेडादौ धातौ परे पररूपमेकादेशस्या दिति तदर्थे । वा सुपीति द्वितीय वाक्यम् । तत्र एडि पररूपमित्यनुवर्तते । धातौ उप सर्गादित्यादि च । ततश्च उक्तपररूपविषये सुब्धातौ परे पररूप वा स्यादिति लभ्यते । तदाह । तेनेति ॥ उत्क्तरीत्या वाक्यभेदाश्रयणेन एडादौ सुब्धातौ पररूप पाक्षिक भवति तदितरधातौ तु नित्यमित्यर्थ । एवे चानियोगे ॥ नियोगशब्द व्याचष्टे नियोगोऽवधारणामिति । अवधारण मन्ययोगव्यवच्छेद । तदन्यस्मिन्नर्थे य एवशब्द तस्मिन्नकारात् परे पूर्वपरयो पररूपमेका देशस्स्यादित्यर्थ । क्वेव भोक्ष्यस इति । अत्रेति न निश्चिनुम इत्यर्थ । क्व एव इति स्थिते वृद्धिं बाधित्वा अनेन वार्तिकेन पररूपमेकार । अनवक्लृप्ताविति ॥ अनवधारणमित्यर्थं । तवैवेति ॥ नान्यस्येत्यर्थ । अत्र एवशब्दस्य अवधारणार्थत्वात् न तस्मिन् परे पररूपम् । अथ कवित् टेः पररूप विधातु टिसज्ञामाह । अचोऽन्त्यादि टेि ॥ अच इति निर्द्धारणे षष्ठी । जातावेकवचनम् । अन्ते भव अन्त्य. अचाम्मध्ध्ये अन्त्य आदि यस्य तत् अन्त्यादीति विग्रह ।