पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४
[अच्सन्धि
सिद्धान्तकौमुदीसहिता


रिणी । “प्रादूहोढोढ्येषैष्येषु' (वा ३६०५) । प्रौह । प्रौढः । “अर्थवद्ग्रहणे नानर्थकस्य ग्रहणम्’ (प १५) । “ब्रश्च-' (सू २९४) इति सूत्रे राजे पृथ गभ्राजिग्रहणाज्ज्ञापकात् । तेनोढग्रहणेन त्क्तान्तमेव गृह्यते । न तु क्तवत्वन्तस्यै कदेश । प्रोढवान् । प्रौढि । “इष् इच्छायां तुदादि ,' ' इष् गतौ दिवादिः इष् आभीक्ष्ण्ये क्रयादि ,' एषा घञि ण्यति च * एष ' ' एष्य ' इति रूपे । तत्र पररूपे प्राप्त अनेन वृद्धि । प्रैष । प्रैष्य । यस्तु ईषु उञ्छे' यश्च *ईष् गतिहिसादर्शनेषु' तयोर्दीर्घपधत्वात् ईष , ईष्य । तत्राद्गुणे प्रेप । प्रेष्य ।

देशस्यादित्यर्थ । स्वैरइति ॥ ईर गतौ। भावे घञ् । स्वेन च्छन्देन ईर इति विग्रह। ‘कर्तृकरणे कृता बहुळम्’ इति समास । स्व ईर इति स्थिते गुणे प्राप्ति अनेन वार्तिकेन वृद्धि । स्वेनेरितुमि ति ॥ स्वेन छन्देन ईरितु सञ्चरितु शीलमस्येत्यर्थे सुग्यजाताविति णिनि स्वच्छन्दचारीत्यर्थ । उपपदसमास । स्व ईरिन् इति स्थिते गुणे प्राप्ते अनेन वृद्धि । प्रादूहोढोढ्येषैष्येषु । प्र इत्युपसर्गात् ऊह, ऊढ, ऊढि, एष, एष्य, एतेषु परेषु पूर्वपरयोरचोर्वृद्धिरेकादेशस्यादित्यर्थ । प्रौह इति ॥ ऊह वितकें । भावे घञ् । गतिसमास । प्र ऊह इति स्थिते अनेन वार्तिकेन वृद्धि प्रौढ इति ॥ वह प्रापणे त्क्त । वचिस्वपीति सम्प्रसारणम् । पूर्वरूपम् । हो ढ इति ढत्वम् । झषस्थथोरिति धत्वम् । ष्टुत्वम्। ढो टे लेाप । ढ्लोप इति दीर्घ । प्र ऊढ इति स्थिते गुणे प्राप्त अनेन वृद्धि । ननु प्रेोढवानित्यत्रापि वहधातो त्क्तवतुप्रल्यये ढत्वधत्वष्टुत्वढलोपदीर्धेषु प्र ऊढ वदिति स्थिते प्रादूहोढेति वृद्धिस्यात् । तत्रापि ऊढशब्दस्य परत्वेन श्रवणादित्यत आह । अर्थवदिति ॥ अर्थवतश्शब्दस्य ग्रहणसम्भवे अनर्थकस्य शब्दस्य ग्रहणन्नभवतीत्यर्थ । इय परि भाषा स्व रूपमित्यत्र रूपग्रहणात् सिद्धेति तत्रैव सूत्रे भाष्ये स्पष्टम्। तेनेति ॥ अर्थवत एव ग्रहणनियमेनेत्यर्थ । क्तान्तमेवेति ॥ क्तप्रत्ययस्तावदर्थवान् । भावकर्मणोस्तद्विधानात् । वक्तवतुप्रत्ययस्तु कर्तरि विहित अतस्तदेकदेशस्य क्तस्यानर्थकत्वात् प्रादूहोढेत्यत्र ऊढग्रहणेन ग्रहणन्न भवति । अतस्तस्मिन् परे वृद्धिर्न भवति । किन्तु गुण एवेत्यर्थ । प्रौढिरिति ॥ वह वातो क्तिन् । ढत्व वत्व ष्टुत्व ढलोप दीर्घ । प्र ऊढि इति स्थिते । गुण बाधित्वा अनेन वृद्धि । इषु इच्छायामित्यादि गणत्रयेऽपि ह्रस्वोपधा एव एते धातव । तेषामिति निर्धारणे षष्ठी । तेषाम्मध्ध्ये अन्यतमात् घञि ण्यति च सति लघूपधगुणे कृते एष एष्य इति च रूपे सिद्धे । प्र एष प्र एष्य इति स्थिते एडि पररूप बाधित्वा अनेन वृद्धि । एतेन वृद्धिरेचीत्यनेन एषैष्यग्रहणयोर्गतार्थत्व निरस्तम् । नन्वेव सति प्रेष इति प्रेष्य इति च कथ प्रयोग इत्यत आह । यस्त्विति ॥ तयोदीर्घोपधत्वेन लघूपधगुणाभावे ईष ईष्य इति च सिध्ध्यति । तयोस्तु एतद्वार्तिके ग्रहणाभावात् । तयो परतो वृद्धद्यभावे आद्गुण इति गुणे प्रेष प्रेष्य इत्यपि रूपद्वयमस्तीत्यर्थ । एषशब्दसाहचर्यात् एष्यशब्दोऽपि कृदन्त एव गृह्यते । तेन तिङन्ने ल्यबन्ते च न वृद्धि । अग्नये प्रेष्य दूत प्रेष्य गत । ऋते च तृतीयासमासे ॥ तृतीयासमासे अकारात् ऋतशब्दे परे पूर्वपरयोरचोर्वृद्धि स्यादित्यर्थ । सुखेन ऋत इति