पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
५३
बालमनोरमा


दिधत् । पुरस्तादपवाद्न्यायेनेय वृद्धि 'एङि पररूपम्’ (सू ७८) इत्यस्यैव बाधिका । न तु 'ओमाडोश्च (सू ८०) इत्यस्य । तेन * अवैहि' इति वृद्धिर साधुरेव । “ अक्षादूहिन्यामुपसंख्यानम्’ (वा ३६०४) । अक्षौहिणी सेना । स्वादीरेरिणो ' (वा ३६०६) । स्वैर । स्वेनेरितुं शीलमस्येति स्वैरी । स्वै


एकारस्य अन्तादिवचेति परादिवद्भावेन, आद्यन्तवदेकस्मिन्निति व्यपदेशिवद्भावेन च, इण् धातो रेजादित्वात्तस्मिन् परे एडि पररूपमिति पररूप बाधित्वा एत्येवत्यूठ्स्विति वृद्धो अवैहाति स्यात् । अवेहीति इष्ट न स्यात् । न च ओमाडोश्चेति पररूपेण तन्निर्वाहश्शङ्कय । एत्येवतीति वृद्धिर्हि यथा एडेि पररूपमित्यस्यापवाद तथा ओमाडित्यस्याप्यपवाद । येन नाप्राप्तिन्यायः साम्यात् इत्यत आह । पुरस्तादिति ॥ पुरस्तादपवादा अनन्तरान्विवीन् बावन्ते नोत्त रानिति न्याय । पूर्वपठिता अपवादा अव्यवहितानेवोत्तरान्विवीन् बाधन्ते न तु व्यवहिता नित्यर्थ । प्रकृते च एत्येधत्यूठ्सु इत्युत्तर कानि चित् सूत्राणि पठित्वा एडि पररूपामिति पठित्वा पुन कतिपयसूत्राणि पठित्वा ओमाडोश्चेति पठितम् । ततश्च उत्क्तन्यायेन एत्येवतीति वृद्या एडि पररूपमित्येव बाध्द्यते । नत्वोमाडोश्चेति पररूपमपीति भाव । वस्तुतस्तु एत्येधतीति वृद्धि ओमाडोश्च्त्यस्यापवाद एव न भवति । उपैति इत्यादौ अप्राप्तेऽपि तस्मिन् एत्येधतीति वृद्धेरारम्भात् । अत पुरस्तादपवादा इति न्यायस्य नाय विषय । ततश्च अव एहीत्यत्र एत्येव तीति बाधित्वा परत्वादोमाडोश्चेति पररूप न्याय्यमित्येव वक्तुमुचितम्। अतएव भाष्ये “नाप्राप्ते पररूपे एत्येधतीति वृद्धिरारभ्यमाणा भवति तस्यापवाद । एडीति पररूपे तु प्राप्तचाप्राप्त च आरभ्यमाणा वृद्धिन्र्न तदपवाद ” इति स्पष्टमेवोक्तम् । यत्तु भाष्ये पक्षान्तरमुक्तम् । “अथवा पुरस्तादपवादा अनन्तरान्विधीन् बावन्त इत्येवमत्येधतीति वृद्धिरेडिपररूपमेव बाधते । नत्वो माडोश्चेति पररूपमपि” इति। ततु एत्येवतीतिवृद्धेरेडि पररूपमोमाडेोश्चेति सूत्रद्वयापवादत्वाभ्युप गमवादमात्रमाश्रित्य बाध्द्यसामान्यचिन्तामाश्रित्य वेत्यल बहुना। अक्षादूहिन्यामुपसङ्खया नम् ॥ आदिति, अचीति, वृद्धिरिति चानुवर्तते । एक पूर्वपरयोरिति च । ऊह वितकें । ऊहनमूह सोऽस्या अस्तीत्यूहिनी । अक्षशब्दादूहेनीशब्दे परे पूर्वपरयोरचो वृद्धिरेकादेशस्या दित्यर्थ । अक्षौहिणीति मत्वर्थीय इनि । नान्तत्वान्डीप् । अक्षाणामूहिनीति विग्रह । परिमाणविशे षविशिष्टा सेना अक्षौहिणी।‘पूर्वपदात्रसज्ञायाम्' इति णत्वम्। अक्ष ऊहिनीति स्थिते गुणे प्राप्त अने न वार्तिकेन वृद्धि । स्वादीरोरिणोः ॥ स्वशब्दादीरशब्दे ईरिन्शब्दे च परे पूर्वपरयोरचोर्वृद्धिरेका


अक्षौहिण्यस्सप्ततिरष्टशतान्येकविशतिसहस्रम् ।

द्विरदास्तथा रथा तत्त्रिपञ्चगुणकास्तुरङ्गनरा ।।

प्रक्रियाकौमुदीकारेण तु अक्षाणामूह समूह सोऽस्या अस्तीति विगृहीतम् । तदपि ऊहिनीशब्देन षष्ठीतत्पुरुष इत्येव परतयैव कथञ्चिन्नेयम् । ऊहशब्देन समासे तत इनौ तु वृद्धिर्न स्यात् । अन्तरङ्गेण गुणेन बाधात् । अपवादभूताया अपि वृद्धे ऊहिनीशब्देन विग्रहे चरितार्थ त्वात् । अपवादोऽप्यन्यत्र चरितार्थश्रेत्परान्तरङ्गाभ्या बाध्द्यत इति न्यायात् ।