पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
[अच्सन्धि
सिद्धान्तकौमुदीसहिता


निपातित । “वान्त इत्यत्र वकारात्, “गोर्युतौ' इत्यत्र छकाराद्वा, पूर्वभागे “लोपो व्यो - ’ (सू ८७३) इति लोपेन वकार प्रश्लिष्यते । तेन श्रूयमाणव कारान्त आदेश स्यात् । वकारो न लुप्यत इति यावत् ।

६४ । धातोस्तन्निमित्तस्यैव । (६-१-८०)

यादौ प्रत्यये परे धातोरेचश्चेद्वान्तादेशस्तर्हि तन्निमित्तस्यैव । लव्यम् ।


व् वान्त इति, व् छन्दसीति च वकार कुतो न श्रूयत इत्यत आह । लोपो व्योरिति । लो पेनेति ॥ अन्तर्हित इति शेष । ननु प्रश्लेषे सति किमायातमित्यत आह । तेनेति ॥ वान्तोयीतिसूत्रे वकारात् प्राक् व् इति प्रश्लिष्यमाण वान्तस्य विशेषणम् । विशेषणत्वाच्च तद न्तविधौ सति वकारान्त इति लभ्यते । तत्र वान्तस्य पुनर्वान्तवचनसामर्थ्यात् श्रूयमाणवकारवान् वान्त आदेशस्यादिति लभ्यते । गोर्युतावित्यत्र च इदमेव वान्तग्रहणमनुवर्तत इति तत्रापि श्रूयमाणवकारवान् वान्तादेश इति लभ्यते । गोर्युतावित्यत्र छकारात् प्राक् व् इति प्रश्लिष्य माणमपि पूर्वसूत्रादनुवृत्तस्य वान्त इत्यस्य विशेणमिति तदन्तविधिना वान्तत्वलाभे वान्तस्य पुनर्वान्तावचनसामर्थ्यात् श्रूयमाणवकारवान् वान्त इति लभ्यत इत्यर्थ । नन्वेतावता गव्यू तिरित्यत्र अवादेशे वकारस्य श्रूणमाणत्वलाभेऽपि लोपशङ्का न परिहृतेत्यत आह । वकारो न लुप्यत इति । यावदिति ॥ वकारस्य श्रूयमाणत्ववचन वकारो न लुप्यत इत्यर्थे पर्यवसन्न मित्यर्थ । अश्रवणस्यैव लोपशब्दार्थत्वादिति भाव । यद्यपि वान्तो यीति सूत्रे वकारप्रश्लेषस्य तदुहारणे गव्यन्नाव्यमित्यत्र प्रयोजनन्नास्ति । तत्र भत्वेन पदत्वस्य बाधेन उक्तलोपस्याप्राप्ते । लव्यमित्यादौ स्वत एव पदत्वाभावाल्लोपस्याप्राप्ति । गामिच्छति गव्यतीत्यत्र क्यजन्तेऽपि वकारस्य न लोपप्रसक्ति । ‘न क्ये' इति नियमेन तत्र पदत्वाभावात् । तथाऽपि गोर्युताविति वार्तिके तदनुवृत्तौ गव्यूतिरित्यत्र प्रयोजनमस्त्येव । एवञ्च वार्तिक एव तत्प्रश्लेष उचित । एतस्मादे वास्वरसात् छकाराद्वेत्युक्तम् । वस्तुतस्तु । वकारप्रश्लेषोऽनुपपन्न । तथा सति सूत्रे वार्तिके च प्रश्लिष्टस्य तस्य श्रवणप्रसङ्गात् । न च लोपोव्योरितिलोपात्तदश्रवणमिति वाच्यम् । वकारलोपस्य उदाहरणाभावाद्वकारग्रहणन्नकर्तव्यामिति लोपो व्योरिति सूत्रस्यभाष्यविरोधात् । अतोऽत्र प्रश्लिष्ट वकारस्य छान्दस एव लोपो वर्णनीय । प्रक्रियाप्रकाशे तु सज्ञापूर्वको विधिरनित्य इति वचनात् । गव्यूतिरित्यत्र न वकारलोप इत्युक्तम्। अन्येतु इको गुणवृद्धी इति सूत्रे अतो ल्रान्तस्येत्यत्र लुप्त निर्दिष्टो वकार इति भाष्यप्रामाण्यात् क्वचिदस्ति वकारलोप इत्याहु । ननु ओयते औयत इत्यत्रापि ओकारस्य औकारस्य च वान्तो यीति वान्तादेशस्यादित्याशङ्कय वान्तो यीति सूत्रन्नियमयति । धातोस्तन्निमत्तस्यैव ॥ एच इति, वान्तो यि प्रत्यय इति, चानुवर्तते । स यादिप्रत्यय निमित्त यस्य स नन्निमित्त । यादिप्रत्यये परे धातोरेवो भवन् वान्तादेश यादिप्रत्ययनिमित्तकस्यैव एचो भवति । नान्यस्येत्यर्थ. । तदाह । यादौ प्रत्यय इत्यादिना । लव्यमिति ॥ लूञ् । छेदने । अचेो यत्, सार्वधातुकार्द्धधातुकयोरित्यूकारस्य गुण ओकार . । तस्य धात्ववयवत्वात्