पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
४५
बालमनोरमा


६३ । वान्तो यि प्रत्यये । (६-१-७९)

यकारादौ प्रत्यये परे ओदौतोरव् आव् एतौ स्त गोर्विकारो गव्यम्।'गोप यसोर्यत्' (सू १५३८) । नावा तार्य नाव्यम् । “नौवयोधर्म-' (सू १६४३) इत्यादिना यत् । गोर्युतौ छन्दस्युपसंख्यानम्’ (वा३५४३) । * अध्वपरिमाणे च' (वा ३५४४)। गव्यूति । “ऊतियूति-'(सू ३२७४) इत्यादिना यूतिशब्दो


हरे एविप्णो ए नै अफ पौ अक इति स्थितेषु एकारादीना क्रमादयादय । वान्तो यि प्रत्यये ॥ यि इति सप्तम्यन्तम् । तेन यकारादाविति लभ्यते । यस्मिन्विविस्तदादावल्ग्रहण इति वार्तिकात् । तत्र यस्मिन्निति सप्तम्यन्त विवक्षितम् । अलिति वर्णपर्याय । सप्तम्यन्ते वर्णग्रहणे यो विधि स तद्वर्णादैौ ज्ञेय इति तदर्थं । येनविधिरित्यस्यायमपवाद । वकार अन्ते यस्य स वान्त । पूर्वसूत्रेोपात्त अवादेश आवादेशश्च विवक्षित । तौ च कयोर्भवत इत्याकाक्षाया ओ दौतोरित्यर्थाल्लभ्यते । पूर्वसूत्रे तयोरेव तदुभयस्थानित्वेन क्लृप्तत्वात् । तदाह । यकारादा वित्यादिना । गव्यमिति । गो य इति स्थिते । ओकारस्य अच्परकत्वाभावात् एचोऽयवा याव इत्यप्राप्ते अवादेशोऽत्र विधीयते । अस्तिचात्र य इत्यस्य प्रत्ययत्वमित्याह । गोप यस्योर्यदिति । अनेन सूत्रेण गोशब्दात् विकारार्थे यत्प्रत्यय इति शेष । नाव्यमिति ॥ नौ य इति स्थिते औकारस्य अच्परकत्वाभावात् एचोऽयवायाव इति अप्राप्त वचनमिदम् । अस्तिचात्र य इत्यस्य प्रत्ययत्वमित्याह । नौ वय इति ॥ गव्यन्नाव्यमित्यत्र लोपश्शाकल्यस्येति हलेि सर्वेषाम्’ इति च वकारस्य लोपो न भवति । तयो पदान्तविषयत्वात् । इह च भत्वेन पदत्वबाधात् । गोर्यूतौ छन्दस्युपसङ्खयानम् ॥ छन्दसि वेदे यूतिशब्दे परे गोशब्दावय वस्य ओकारस्य स्थाने अव् इति वान्तादेशो भवतीति उपसख्यान अधिकवचन कर्तव्यमिति सूत्रकारशिक्ष्यते । ‘आनोमित्रावरुणा घृतैर्गव्यूतिमुक्षतम्’ इत्युदाहरणम् । गव्यूति । गोप्रचा रभूमि । गावो यूयन्ते मिश्रयन्तेऽस्यामित्यधिकरणे यु धातो क्तिनिति वेदभाष्ये भट्टभास्कर । अत्र यूतिशब्दस्य प्रत्ययत्वाभावात्तस्मिन् परत ‘वान्तो यिप्रत्यय’ इत्यप्राग्तौ वचनमिदम् । अद्ध्वपरिमाणे च ॥ मार्गपरिमाणविशेषे गम्येऽपि यूतिशब्दे परे गोशब्दावयवस्य ओकारस्य अव् इति वान्तादेशस्य उपसख्यान कर्तव्यमित्यर्थ । लोकेऽपि प्राप्त्यर्थमिदम् । यद्यपि पूर्ववार्तिक वैदिकप्रक्रियायामेव उपन्यसनीयम् । तथाप्यत्र अनुवृत्तिबोधसौकर्यार्थमिह तदुपन्यास । गव्यू: तिरिति ॥ यावति गोशब्द यूयते मिश्रयते श्रूयते तावानश्वा गव्यूति, क्रोशयुम। ‘गव्यूति स्स्त्री क्रोशयुगम्' इत्यमर । युधातोरधिकरणे क्तिन् । कथमिह युधातेोदीर्घ इत्यत आह । ऊतियूतीति । निपातनादेव दीर्घ इति भाव । सिद्धप्रक्रियस्य निर्देशो निपातनम् । ननु गव्य न्नाव्यमित्यत्रभत्वेन पदत्वबाधात् ‘लोपश्शाकल्यस्य’ इति ‘हलिसर्वेषा इति च वलोपाभावेऽपि गव्यू तिरित्यत्र लोप स्यात् । अन्तर्वर्तिनी विभक्तिमाश्रित्य पदत्वात् यूतिशब्दस्य यजादिस्वादिप्रत्य यत्वाभावेन तस्मिन् परतो भत्वाभावाचेत्यत आह । वान्त इत्यत्रेत्यादि ॥ वान्तो यि प्रत्यय इत्यत्र वकारात् गोर्युतावित्यत्र छकाराद्वा पूर्वभागे वकार प्रश्लिष्यत इत्यन्वय । तर्हि