पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
४३
बालमनोरमा


५७ । सर्वत्र शाकल्यस्य । (८-४-५१)

द्वित्वं न । अर्क । ब्रह्मा ।

दीर्घादाचार्याणाम् । (८-४-५२)'

द्वित्वं न । दात्रम् । पात्रम् ।

५९ । अचो रहाभ्यां द्वे । (८-४-४६)

अच. पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्त. । हर्य्यनुभव. । नह्ययस्ति

६० । हलो यमां यमि लोपः । (८-४-६४)

हल परस्य यमो लोप स्याद्वा यमि । इति लोपपक्षे द्वित्वाभावपक्षे चैकयं


नकारस्य द्वित्वविकल्प । राष्ट्रमित्यत्र षकारस्य द्वित्वविकल्प । सर्वत्र शाकल्यस्य ॥ नेत्यनुवर्तते । यत्र यत्र द्वित्व विहित तत्र तत्र शाकल्यस्य ऋषेर्मते द्वित्वन्न भवतीत्यर्थ । दी र्घदाचार्याणाम् ॥ नेत्यनुवर्तते । दीर्धात् परस्य यरो द्वित्व केषाञ्चिदाचार्याणाम्मते न भवति । मतान्तरे तु भवति । अनचिचेत्यत्र वाग्रहणमनुवर्तत इति नाज्झलाविति सूत्रे कैयट । एवञ्च अनचिचेत्येव द्वित्वविकल्पसिद्धौ त्रिप्रभृतिष्वित्यादि सूत्रत्रय नारम्भणीयमिति प्रौढमनोरमाया स्थितम् । एतत्सूत्रत्रयविरोवादनविचेचेत्यत्र वाग्रहणन्नानुवर्त्यमिति युक्त प्रतिभाति । अचोर हाभ्यां द्वे ॥ यरोऽनुनासिक इत्यतो यर इति षष्ठयन्त वेतिचानुवर्तते । अच इति दिग्योगे पञ्चमी । पराभ्यामिति शेष । रहाभ्यामित्यपि पञ्चमी । परस्येति शेष । तदाह । अचःपरा भ्यामित्यादिना। हर्यनुभव इति ॥ हरेरनुभव इति विग्रह । हरि अनुभव इति स्थिते रेफादिकारस्य यण् । तस्य द्वित्व । अथ हकारात् परस्योदाहरति । नह्यस्तीति ॥ नहि अ स्तीति स्थिते हकारादिकारस्य यण् । तस्य द्वित्व । इहोभयत्र यकारस्य अच परत्वाभावादच्प रकत्वात् यण प्रतिषेध इति निषेधाच्च द्वित्वमप्राप्त विधीयते । अत्र अनचिचेति रेफहकारयो र्द्वित्विन्न भवति । द्वित्वप्रकरणे रहाभ्यामिति रेफत्वेन हकारत्वेन च साक्षाच्छूुतेन निमित्तभावेन तयो यर्शब्दवोधितकार्यभाकबाधात् । श्रुतानुमितयोश्श्रुत वलीय इति न्यायात् । हर य् यू अनुभव । नह् य् य् अस्ति इति स्थिते । उभयत्रापि प्रथमयकारस्य लोपविधिमाह । हलो यमां यमि लोपः ॥ झयो होऽन्यतरस्यामित्यतोऽन्यतरस्यामित्यनुवर्तते । तञ्च-विभक्तिप्रति रूपकमव्यय वार्थे वर्तते । यमामिति वहुत्व प्रयोगबहुत्वापेक्षम् । एकैकस्मिन् प्रयोगे बहूना यमामसम्भवात् । हल इति दिग्योगे पञ्चमी । परस्येति शेष । तदाह । हलः परस्य यम इत्यादिना । अनेन सूत्रेण उदाहरणद्वयेऽपि प्रथमयकारस्य लोपे सति एकयकाररूप सम्प द्यते। लोपाभावपक्षे तु द्वियकाररूप सम्पद्यते । ननु हलो यमामिति सूत्रमेतदर्थ नारम्भणीयम् अचोरहाभ्यामिति यकारद्वित्वस्य वैकल्पिकतया द्वित्वे सति द्वियकाररूपस्य द्वित्वाभावे एकयकाररूपस्य च सिद्धेरित्याशङ्कय नास्य सूत्रस्यात्र प्रयोजनमित्याह । इति लोपेति ॥