पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३५
बालमनोरमा


स्थानत आन्तर्यादीकारस्य यकार । “सुध्य्-उपाख्य ' इति स्थिते

४८ । अनचि च । (८-४-४७)

अच परस्य यरो द्वे वा स्तो न त्वचि । इति धकारस्य द्वित्वम्

४९ ॥ स्थानिवदादेशोऽनल्विधौ । (१-१-५६)


इत्यन्वय । प्रत्याहारेषु तद्वाच्यवाच्येषु लक्षणा नाज्झलाविति सूत्रे प्रपञ्चिता । तत्स्फोरणाय ईकार उदाहृत । ननु ईकारस्य वरला वा कुतो न स्यु यण्त्वाविशेषादित्यत आह। स्थानत आन्तर्यादिति ॥ तालु स्थानकत्वसाम्यादीकारस्य स्थाने स्थानेऽन्तरतम इति यकार एव भवति । न तु वरला । भिन्नस्थानकत्वादित्यर्थे । अत एव “यथासङ्खयमनुदेशस्समानाम् इति सूत्रे भाष्यम्। किमिहोदाहरणम् । इकोयणचि । दध्यत्र । मध्वत्र । नैतदस्ति । स्थानेऽन्तरतमेना प्येतत् सिद्धमिति स्थानेऽन्तरतम इति सूत्रभाष्ये तु किमिहोदाहरणम् । इकोयणचि । दध्यत्र मध्वत्र । नैतदस्ति । सङ्खयातानुदेशेनाप्येतत् सिद्धमित्युक्तम् । यथासङ्खयसूत्रेणेत्यर्थ । नन्विह यण्शब्देन निरनुनासिका यवला रेफश्चेति चत्वारो गृह्यन्ते । यणो भाव्यमानतया तेन सवर्णाना ग्रहणाभावात् । गुणाना अभेदकत्वेऽपि यवलाष्षट् रेफश्वेति सप्त गृह्यन्ते । इक्शब्दे तु षट्षष्टिर्गृ ह्यत इति विषमसङ्खयाकत्वात् कथमिह यथासङ्खयसूत्रप्रवृत्तिरिति चेन्न । इकयणुत्वादिना अनुग तीकृताना समत्वात् । ननु ऋलृवर्णाभ्या प्रत्येक त्रिंशदुपस्थितौ लृवर्णाना रेफादेशस्य ऋवर्णना लादेशस्य च प्रसङ्ग इति न यथासङ्खयसूत्रेण निर्वाह इति चेत् । श्रृणु । ऋत्वावच्छिन्नस्य रेफो भवति । लृत्वावच्छिन्नस्य लकारो भवतीतेि यथा सङ्खयसूत्रालभ्यते । लृत्वजातिश्च न ऋवर्णेषु ।

ऋलवर्णयो सावर्ण्यविधिबलात्तु ऋत्व लृकारे, लृत्व ऋकारे च, आरो

प्यते कार्यार्थम् । एवञ्च वास्तव ऋत्व लृत्व च आदायात्र यथासङ्खयप्रवृतिर्निबाँधेत्यास्तान्तावत् । सुध् य् इति स्थिते वकारस्य द्वित्वमिति वक्ष्यमाणेनान्वय । केनसूत्रेणेत्यत आह । अनचेि च ॥ “यरोऽनुनासिकेऽनुनासिकोवा' इत्यत यर इति षष्ठयन्त चेति चानुवर्तते अचो रहाभ्या द्वे इत्यत अच इति पञ्चम्यन्त द्वे इति चानुवर्तते । न अचू अनच् तस्मिन् अनचीति न पर्युदास तथा सति नञिवयुक्तमन्यसदृशे तयाह्यर्थगति' इति न्यायेन अज्भिन्ने हलीत्यर्थस्यात् । तथासति लाघवाद्धलीत्येव वदेत् । रामात् इत्याद्यवसा नेषु च द्वित्व न स्यात् । अत अचि न भवतीत्यसमर्थसमासमाश्रित्य प्रतिषेधपर वाक्यान्तरम् तदाह । अचः परस्येत्यादिना । इति शधकारस्येति । अनेन सूत्रेण धकारस्य द्विरु । धकारस्य उकारादच परत्वादच्परकत्वाभावाच्चेति भाव । ननु सुध् य् इत्यत्र ईकारस्थानिकस्य यकारस्य स्थानिवद्भावेनाच्त्वात् अव् परकत्वात् कथ धकारस्य द्वित्वमिति शङ्का हृदि निधाय तस्य स्थानिवद्भावप्रापक सूत्रमाह । स्थानिवदादेशः । गुरुस्थानापन्ने गुरु पुग्रादौ स्थानापत्या वर्मलाभो लोकतस्सिद्ध । कुशादिस्थानापन्नेषु शरादिषु च वैदिकन्यायसिद्ध इह तु शास्त्रे स्व रूप शब्दस्येति वचनात् स्थानिधर्मा आदेशेषु न प्राप्नुयुरिति तत्प्राप्त्यर्थ