पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१४३
बालमनोरमा ।


२२८ । पद्दन्नोमास्ह्यन्निशसन्यूषन्दोषन्यकञ्छक

न्नुदन्नासञ्छस्प्रभृतिषु । (६-१-६३)

पाद दन्त नासिका मास हृदय निशा असृज् यूष दोष यकृत् शकृत्

उदक आस्य एषां पदादय आदेशा स्यु शसादौ वा । यत्तु “ आसनशब्दस्या

सन्नादेश ' इति काशिकायामुक्त्तं तत्प्रामादिकम् । पाद । पादौ । पादा. । पादम् । पादौ । पद -पादान् । पदा-पादेनेत्यादि ।

२२९ । सुडनपुंसकस्य । (१-१-४३)

सुडिति प्रत्याहार । स्वादिपञ्चवचनानि सर्वनामस्थानसंज्ञानि स्युरक्लीबस्य ।

२३० । स्वादिष्वसर्वनामस्थाने । (१-४-१७)

काप्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु परत पूर्व पदसंज्ञ स्यात् ।


अत पूर्वविप्रतिषेधेनेत्यादिमतान्तरमशुद्धमित्यर्थ । अथ पादशब्दस्य शसादौ विशेष दर्शयितु माह । पद्दन्नो ॥ पद्-दत्-नस्-मास्-हृद्-निशा-असन्-यूषन्-दोषन्-यकन्-शकन्-उदन् आसन् इत्येषा समाहारद्वन्द्व । शस्-द्वितीयाबहुवचन प्रभृति आदि येषामिति तद्गुणसविज्ञानो बहुव्रीहि । “ अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्' इत्यत अन्यतरस्यामित्यनुवर्तते । शसादिषु परेषु पदादय आदेशा वा स्युरित्यर्थ । पदाद्यादेशैश्च स्वानुरूपा स्थानिन आक्षिप्यन्ते । तदाह । पाददन्तेत्यादिना ॥ यथासङ्खयपरिभाषया पादादीना क्रमेण पदादय आदेशा प्रत्येतव्या । तत् प्रामादिकमिति ॥ भ्रममूलकमित्यर्थ । 'हव्या जुह्यान आसनि' इति मन्त्रे “ आसन्य प्राणमूचु' इत्यादौ च, आस्यार्थकत्वस्यैव दर्शनादिति भाव । दन्तशब्दस्य सुटि रामवत् । शसेि पद्दन्निति दत् आदेश । दत् अस् इति स्थिते तकारस्य 'झलाञ्जशोऽन्ते' इति पदान्ते विधीयमानजश्त्वमाशङ्कितु पदसज्ञाविधायक सूत्र वक्ष्यति स्वादिष्वसर्वनामस्थान इति । तत्र कि सर्वनामस्थानमित्यत आह । सुडनपुंसकस्य ॥ 'शि सर्व नामस्थानम्' इत्यत सर्वनामस्थानमित्यनुवर्तते । अक्लीब नपुसकभिन्नप्रातिपदिक, तस्य सुट् सर्वनामस्थानसज्ञ स्यादित्यर्थ । तत्र सुट्शब्दमप्रसिद्धार्थत्वाद्याचष्टे । सुडिति प्रत्याहार इति ॥ सु इत्यारभ्य औटष्टकारेणेति शेष । नतु टाटकारेण । प्रथमातिक्रमणे कारणाभावात् । तदेतदाह । स्वादिपञ्चवचनानीति । स्वादिष्वसर्वनामस्थाने । असर्वनामस्थान इति बहुत्वेऽप्येकवचनमार्षम् । कप्रत्ययावधिष्विति ॥ पञ्चमाङद्यायान्ते विधीयमानकप्रत्य योत्तरावधिकेष्वित्यर्थ । तत्र च व्याख्यानमेव शरणम् । एवञ्च दत् अस् इत्यत्र दतूशब्दस्य सुबन्तत्वाभावेन पदत्वाभावेऽपि अनेन सूत्रेण पदत्वात् “झलाञ्जशोऽन्ते इति तकारस्य जश्त्व स्यादित्याक्षेपस्सूचित । भसज्ञया पदसज्ञाबाधात् न जश्त्वमिति