पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१३५
बालमनोरमा ।

ज्ञातिधनान्यवाचिन स्वशव्दस्य या प्राप्ता संज्ञा सा जसि वा स्यात् । स्वे-स्वा । आत्मीया इत्यर्थ । आत्मान इति वा । ज्ञातिधनवाचिनस्तु स्वा ज्ञातयोऽर्था वा ।

२२० । अन्तरं बहिर्योगोपसंव्यानयोः । (१-१-३६ )

बाह्ये परिधानीये चार्थेऽन्तरशव्दस्य या प्राप्ता सञ्ज्ञा सा जसि वा स्यात् । अन्तर-अन्तरा वा गृहा । वाह्या इत्यर्थ । अन्तर-अन्तरा वा शाटका । परिधानीया इत्यर्थ ।

२२१ । पूर्वादिभ्यो नवभ्यो वा । (७-१-१६)

एभ्यो नवभ्यो डसिडयो स्मात्स्मिनौ वा स्त । पूर्वस्मात्-पूर्वात् । पूर्व स्मिन्-पूर्वे । एव परादीनामपि । शेषं सर्ववत् । एकशव्द सङ्खयायां नित्यै कवचनान्त ।


तीति । अत्रापि सर्वनामानीति विभाषा जसीति चानुवर्तते । ज्ञातिश्च धनञ्च ज्ञातिधनेन तयो राख्या ज्ञातिधनाख्या न ज्ञातिवधनाख्या अज्ञाति धनाख्या तस्या अज्ञाति धनाख्यायाम् । स्वमिति शब्दस्वरूपापेक्षया नपुसकत्वम् । तदाह । ज्ञातिधनान्येति । स्व-स्वाः, इति ॥ सर्वना मत्वे शीभाव, “तदभावे तदभ व इति भाव । आत्मा आत्मीय ज्ञाति धनञ्चेति स्वशब्दस्य चत्वारोऽर्था । (नि) ‘स्वो ज्ञातावात्मनि स्व त्रिष्वात्मीये स्वोऽस्त्रिया धने' इत्यमर । अत्र स्वो ज्ञातावात्मनीत्येक वाक्यम् । ज्ञातावात्मनि च स्वशब्द पुलिङ्ग इत्यर्थ । स्व त्रिष्वात्मीये इति द्वितीय वाक्यम् । आत्मीये स्वशब्दो विशेष्यनिन्न इत्यर्थ । स्वोऽस्त्रिया धन इति तृतीय वाक्यम् । वने स्वशब्द पुन्नपुसक इत्यर्थ । * स्वस्स्यात् पुस्यात्मनि ज्ञातौ त्रिष्वात्मीयेऽस्त्रिया धने' इति मेदिनीकोश । तत्र ज्ञातिधनयो पर्युदासात् आत्मनि आत्मीये च सर्वनामत्व जसि वेिकत्प्यत इत्यभिप्रेत्य व्याचष्टे । आत्मीया इत्यर्थ इति । आत्मान इति वेति ॥ ज्ञातिधनपर्युदासस्य प्रयोजनमाह । ज्ञातिधनवाचिनस्त्विति ॥ ज्ञातिवाचिन धनवाचिनश्च सर्वनामत्वर्पयुदासात् जसि स्वा इत्येव रूपमित्यर्थ । नच ज्ञातिधनयोरप्यात्मीयत्वपुरस्कारे सर्वनामत्व न स्यादिति वाच्यम् । आख्याग्रहणवलेन ज्ञातित्ववनत्वपुरस्कार एव पर्युदयसप्रवृत्ते । अन्तरम् । अत्रापि सर्वनामानीति विभाषा जसीति चानुवर्तते । बहि अनावृतप्रदेश तेन योगस्सम्बन्ध यस्य स बहिर्योग बहिर्विद्यमानोऽर्थ इति यावत् । उपसवीयते पारिधी यत इति उपसव्यान अन्तरीय वस्त्र तदाह । बाह्य इत्यादिना । पूर्वादिभ्यो ॥ डसिङयोस्स्मात्स्मिनावित्यनुवर्तते । इत्याह । एभ्य इति ॥ पूर्वपरेत्यादित्रिसूत्रीनिर्दिष्टा पूर्वादय इह विवक्षिता । त्यदादयो हलन्ताधिकारे व्याख्यास्यन्ते । एकशब्दस्संख्याया मिति ॥ अर्थान्तरे तु द्विवचनबहुवचने अपि स्त । “एकोऽन्यार्थे प्रधाने च प्रथमे केवले