पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२८
[अजन्तपुलिङ्ग
सिद्धान्तकौमुदीसहिता


सर्वादीनि शब्दस्वरूपाणि सर्वनामसज्ञानि स्यु । * तदन्तस्यापीय संज्ञा' । * द्वन्द्वे च' (सू २२४) इति ज्ञापकान् । तेन * परमसर्वत्र इति खल परमभवकान्' इत्यत्राकच्च सिद्धयति ।

२१४ । जसः शी । (७-१-१७)

अदन्तात्सर्वनाम्न परस्य जस शी स्यात् । अनकाल्त्वात्सर्वादेश ।


वहुव्रीहि । तस्यान्यपदार्थस्य गुणा विशेषणानि वर्तिपदार्थरूपाणि तेषा सविज्ञान क्रिया न्वयितया विज्ञान यत्र स तद्गुणसविज्ञान इति व्युत्पत्ति । यत्र सयोगसमवायान्यतरसम्बन्धे नान्यपदार्थे वर्तिपदार्थान्वय तत्र प्रायेण तद्गुणसविज्ञानो बहुव्रीहि । यथा द्विवासा देवदत्तो भुङ्क्ते, लम्बकर्ण भोजयेत्यादौ । तत्रहि वाससो कर्णयोश्च भुजिक्रियाभावेऽपि सन्निहितत्व मात्रेण तद्गुणसविज्ञानत्वम् । प्रकृते च समुदाये अन्यपदार्थे सर्वशब्दस्य समवायान्तर्गतारोपि तावयवावयविभावसम्वन्धसत्त्वात्तद्गुणसविज्ञानत्वम् । स्वस्वामिभावादिसम्बन्धेनान्यपदार्थे वर्ति पदार्थान्वये त्वतद्गुणसविज्ञानो बहुव्रीहि । यथा चित्रगुमानयेत्यादावित्यलम् । ननु सर्व विश्व इत्येव सर्वदिशब्दाना केवलानामेव सर्वादिगणे पाठात् परमसर्वादिशब्दाना कथ सर्वनामते त्यत आह । तदन्तस्यापीति । द्वन्द्वे चेतीति ॥ द्वन्द्वेचेत्यनेन सर्वादिशब्दान्तद्वन्द्वस्य सर्वे नामसज्ञा प्रतिषिद्यते वर्णाश्रमेतराणामित्यादौ । यदि केवलानामेव सर्वादिगणपठिताना सर्व नामता, नतु तदन्तानामपि, तर्हि तत्प्रतिषेधो व्यर्स्थस्यात् । अतस्तदन्तस्यापीय सज्ञेति विज्ञायत इत्यर्थ । ननु परमसर्वादिशब्देषु गणपठिताना केवलानामेव सर्वादिशब्दानामस्तु सर्व नामता, मास्तु तदन्तानामपि । ‘सर्वनाम्नस्स्मै' इत्यादिसर्वनामकार्याणामङ्गाधिकारस्थत्वेन, पदा ङ्गाधिकारे तस्य तदन्तस्य चेति परिभाषया परमसर्वस्मै इत्यादिषु सिद्धेरित्यत आह । तेनेति ॥ तदन्तस्यापि सज्ञाबलेनेत्यर्थ । सिद्धयतीति ॥ सप्तम्यास्त्रलिति सप्तम्यन्तात् सर्वनाम्नो विधीयमानस्त्रल् “अव्ययसर्वनाम्नामकञ्च् प्राक्टे' इत्यज्ञाताद्यर्थेषु विधीयमानोऽकच्च सिध्द्यतीत्यर्थ । चकारात् पञ्चम्यास्तसिलिति तसिल् च । नचावयवगतसर्वनामत्वेन तत्सिद्धिरिति वाच्यम् । कुत्सित इति सूत्रस्थभाष्यरीत्या सङ्खयाकारकाम्या पूर्वार्थस्य इतरान्वयेन सुबन्तादेव तद्धितो त्पत्त्यवगमेन सर्वनामप्रकृतिकसुबन्तार्थगतकुत्सादिविवक्षाया सर्वनामावयवटे प्रागकजित्यर्थपर्यं वसानात्तदन्तसज्ञाभावे तदसिद्धेरिति भाव । सर्वशब्दात् जसि पूर्वसवर्णदीर्घे प्राप्ते । जसश्शी ॥ अतो मिस इत्यस्मादत इत्यनुवर्तते । सर्वनाम्नस्मै इत्यतस्सर्वनाम्न इत्यनुवर्तते । तदाह । अद् न्तादित्यादिना ॥ शी इति दीर्घोच्चारण नपुसकाचेचत्युत्तरार्थम्। तेन वारिणी इति सिध्द्यति । अनेनकाल्त्वादिति ॥ नतु शित्वप्रयुक्त सर्वादेशत्वमत्रेति भाव । ननु ‘नानुबन्धकृतमनोकाल् त्वम्’ इत्यस्ति परिभाषा । अनुबन्ध इत् तत्प्रयुक्तमनेकाल्त्व सर्वादेशनिमित्तन्न भवतीत्यर्थ । ततश्च शी इत्यत्र शकारस्य लशक्वतद्धित इति इत्सज्ञकत्वात् कथन्तत्प्रयुक्तमनेकाल्त्वम् । अतएव ‘अर्वणस्रसावनञ' ' इत्यत्र ऋकारमितमादाय तृ इत्यादेशस्य नानेकाल्त्वम् । अन्यथा तस्यापि सर्वदेशत्वापत्ते अताशित्वप्रयुक्तमेवात्र सर्वादेशत्वमाश्रयितु युक्तमित्याशङ्कय