पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१२३
बालमनोरमा ।

लक्षणो विधिरनिमित्तं तद्विघातस्य' (प ८६) इति परिभाषा तु नेह प्रवर्तते । कष्टाय क्रमणे' (सू २६७०) इत्यादिनिर्देशेन तस्या अनित्यत्वज्ञापनात् । रामा म्याम् ।

२०५ । बहुवचने झल्येत । (७-३-१०३)

झलादैौ बहुवचने सुपि पर अतोऽङ्गस्यैकार स्यात् । रामेभ्य । “बहु वचने' किम् । राम । रामस्य । *झलि' किम् । रामाणाम् । “मुपि' किम् । पचध्वम् ।जश्त्वम्।


यादेशस्य स्थानिवद्भावेन सुप्त्व भवत्येव । दीर्घस्य आदेशगतयकाररूपालाश्रयत्वेऽपि स्थान्य लाश्रयत्वाभावात् । ' अकृत्सार्वधातुकयोदीर्घ' इति तु परमन्यत्र नोपन्यस्तम् । अकृत्सा र्वधातुकयोरिति पर्युदासबलेन तस्य असुप्येव प्रवृत्तेरित्याहु । स्यादेतत् । सान्निपातलक्षणो विधिरनिमित्तन्तद्विघातस्येत्यस्ति परिभाषा । सन्निपात सश्लेष, लक्षणन्निमित्त, यस्य स सन्निपातलक्षण । विधि कार्यम् । तद्विघातस्य त सन्निपात विहन्तीति तद्विघात कर्मण्यण् । कर्मण्युपपदे कर्तर्यण् । हनस्तोऽचिण्णलोरिति तकार । होहन्तेरिति कुत्त्वम् । सन्निपातविघा तकस्य न निमित्तमित्यर्थ । उपजीवकमुपजीव्यस्य विघातकन्नभवतीति यावत् । प्रकृते च अद न्तसम्बन्धमाश्रित्य प्रवृत्तोऽयादेश अदन्तसम्बन्धविघातकस्य दीर्घस्य कथ निमित्त स्यात् इत्याशङ्कय परिहरति । सन्निपातलक्षण इत्यादिना ॥ तृतीयाद्विवचनवत् दीर्घ सिद्धवत्कृत्याह । रामाभ्यामिति ॥ भ्यसि न विभक्ताविति सस्य नेत्वम् । सुपि चेति दीर्धे प्राप्ते । बहुवचने झल्येत् । अतो दीर्घो यजीत्यत सुपि चेत्यतश्च अत इति सुपीति चानुवर्तते । झलीत्यनेन सुपीति विशेष्यते । यस्मिन् विधिरिति तदादिविधि । तदाह । झलादाविति । अतो ऽङ्गस्येति ॥ अदन्तस्याङ्गस्येत्यर्थ । एत्वे सति रुत्वविसगो सिद्धवत्कृत्याह । रामेभ्य इति । राम इति । अयोगवाहानामकारोपरि शर्षुचोपसङ्खयातत्वेन विसर्गस्य झत्त्वात् स्थानिव द्भावेन सुप्त्वाच्च तस्मिन् परत एत्व प्राप्तम् । रुत्वविसर्गयोरसिद्धत्वेऽपि राम स् इति दशाया झलादिसुप्परत्वात् । अतो बहुवचनग्रहणमित्यर्थ। रामस्येति ॥ बहुवचनग्रहणस्यप्रयो जनान्तरम् । षष्ठयेकवचनस्य डसस्स्यादेशे तस्य स्थानिवद्भावेन सुप्त्वात् स्वतो झलादित्वाच्च तस्मिन् परत एत्वे प्राप्ते तन्निवृत्त्यर्थ बहुवचनग्रहणमित्यर्थ । सन्निपातपरिभाषा तु सर्वेषामिति निर्देशादेत्वविवौ न प्रवर्तत इत्याहु । झलि किमिति ॥ “उतो वृद्धिर्लुकि हलि' इत्यतो हलीत्यनुवृत्य हलादौ वहुवचने सुपि एत्वमित्येव व्याख्यातु शक्यते । तावतैव रामा इत्याद्य जादिबहुवचने एत्वनिरासादिति प्रश्र्न । रामाणामिति ॥ हलादौ बहुवचने सुपि एत्व मित्युक्तौ रामाणामित्यत्राप्येत्व स्यात् । तन्निवृत्त्यर्थ झल्ग्रहणमित्यर्थ । यद्यप्यत्र सन्निपात परिभाषया ह्रस्वान्ताङ्गसन्निपातमुपजीव्य प्रवृत्तस्य नुटस्तद्विघातकमेत्व प्रति निमित्तत्वासम्भवा देव एत्वन्न भविष्यति । तथापि झल्ग्रहणमेत्वे सन्निपातपरिभाषाया अप्रवृत्तिज्ञापनार्थम् ।