पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१० ८
[स्वादिसन्धि
सिद्धान्तकौमुदीसहिता



१७६ । एतत्तदोः सु लोपोऽकोरनञ्समासे हलि । (६-१-१३२)

अककारयोरेतत्तदोर्य सुस्तस्य लोप स्याद्वलि न तु नञ्समासे । एष विष्णु । स शन्भु । । अको ' किम् ।एषको रुद्र । । अनञ्समासे' किम् । असश्शिव । 'हलि' किम् । एषोऽत्र ।


हते सति देवदत्ते तद्धन्तरि हतेऽपि देवदत्तस्य न पुनरुन्मेष । हन्तृहन्तरि हतत्वारोपे तु सुतरान्नोन्मेष । देवदत्त हन्तुमुद्युक्तस्य हनने तु देवदत्तस्य जीवनमस्त्येवेति न्यायशरीरम् । तावित्यादौ च वृद्विहन्तु पूर्वसवर्णदीर्घस्य हननोद्यमसजातीय प्रसङ्गमात्रम् । न तु हनन स्थानीया लक्ष्ये प्रवृत्ति । अतस्तावित्यादो नास्य न्यायस्य प्रवृत्तिरिति तोसदित्यादिनिर्देश कथमेतस्य न्यायस्यानित्यता बोधयितुमीष्टे । स्पष्टचैतत् खादिष्विति सूत्रे कैयटे । प्रकृते तु निराधिष्ठानारोपासम्भवात् हननसजातीया लक्ष्ये कार्यप्रवृत्तिरावश्यकी । ततश्च प्रवृत्तस्य रेफलोपस्यासिद्धत्वेऽपि देवदत्तहन्तृहतन्यायेन रोरुन्मेषाभावादुत्व भवतीति शब्दरत्रे प्रपञ्चितम् । न च उत्वकार्यासिद्धत्वपक्षेऽपि मनोरथासिद्धिरस्येव । दर्शनाभावरूपरेरफलोपस्याभावरूपासिद्धत्वे सति रोरुन्मेषावश्यकत्वात् । अभावाभावस्य प्रतियोगिरूपत्वादिति वाच्यम् । एवमपि कार्य सिद्धत्वे अमू अमी इत्याद्यसिद्धे । यथाचैतत्तथा अदस् शब्दनिरूपणावसरे प्रपञ्चयिष्यते । एतत्तदोः ॥ एतत्तदोरित्यत्र त्यदादीनाम्मिथस्सहोक्तौ यत्परन्तच्छिष्यत इत्येकशेषस्य त्यदाद्यत्वस्य चाभाव आर्ष । सु इति लुप्तषष्ठीक पदम् एतत्तदोरित्यनेनान्वेति । एत त्तदोस्सकारस्येति । अत एव सोलोपस्सुलोप इति न षष्ठीसमास । असारमर्थ्यात् । अविद्यमान ककार ययोस्तौ अकौ तयेो अकोरिति बहुव्रीहि । तदाह । अककारयो रित्यादिना । अनञ् समासे इति न पर्युदास । तथा सति ननिवयुक्तन्यायान् नञ्समास सदृशे समास एव स्यात्, नतु एष विष्णुरित्यादिवाक्येषु इत्यभिप्रेत्याह । न तु नञ् समास इति । एषविष्णुः, सशम्भुरिति । एषस् विष्णु, सस् शम्भुरिति स्थिते सकारस्य लोप । एषको रुद्र इति ॥ ‘अव्ययसर्वनाम्रामकच्प्राक्टे ' इति अकच् । अत्र एतच्छब्दस्य सककारत्वान्न सुलोप । तच्छब्दे अकचि सको रुद्र इत्यपि प्रत्युदाहारणम् । न च अकचि सति शब्दान्तर त्वात् प्राप्तिरेव नेति वाच्यम् । “तन्मध्द्यपतितस्तद्वहणेन गृह्यत' इति परिभाषया समकच्क स्य अशब्दान्तरत्वात् । परिभाषायान्तु इदमेव ज्ञापकम् । असश्शिव इति ॥ न स अस इति विग्रह, । विसर्जनीयस्य स इति सत्वैश्चुत्वेन शकार नञ्समासत्वान्न फुलोप । अनेष श्शिव इत्यपि प्रत्युदाहरणम् । एषोऽत्रेति ॥ एषस् अत्रेति स्थिते, सस्य रुत्वम्, उत्वम्, आद्गुण , हल्परकत्वाभावान्न लाप । अत्रै*ऐतत्तदोरवयवस्य 'सोरिक्तिन व्याख्यातम् । असम्भवात् । सो परत्वेन विहितस्य प्रातिपदिकावयवत्वाभावात् । एतत्तश्या परस्य सोरि त्यपि न भवति । एतत्तदोरिति षष्ठीविरोधात् । एतत्तद्भ्या विहितस्येति व्याख्याने तु परमैष ददाति, परमस ददातीत्यत्र अव्याप्ति । तत्र सोस्समासाद्विहितत्वेन एतत्द्भ्या विहितत्वाभावात् । अनञ् समास इति प्रतिषेधवैयर्थ्याच्च । अत एतत्तदर्थगतसख्याभिधायिनस्सोरिति व्याख्येयम्