पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१०५
बालमनोरमा ।

१७२ । रोऽसुपि । (८-२-६९)

अह्नो रेफादेश स्यान्न तु सुपि । रोरपवाद् । अहरह । अहर्गण । असुपि' किम् । अहोभ्याम् । अत्र “अहन' (सू ४४३) इति रुत्वम् । “रूप रात्रिरथन्तरेषु रुत्व वाच्यम्’ (वा ४८४७) । अहोरूपम् । गतमहोरात्रिरेषा । ग्कदेशविकृतस्यानन्यत्वादहोरात्र । अहोरथन्तरम् । * अहरादीनां पत्यादिषु वा रेफ (वा ४८५१) । विसर्गापवाद । अहर्पति । गीर्पति । धूपैति । पक्षे विसर्गोपध्मानीयौ

१७३ । रो रि । (८-३-१४))

रेफस्य रेफे परे लोप स्यात् ।


लोपस्सिद्ध इति वाच्यम् । लोपोव्योरिति लोप प्रति यत्वस्यासिद्धत्वात् । रोऽसुपि ॥ र असुपीति छेद । ‘अहन्’ इति सूत्रमनुवर्तते । तच्च लुप्तषष्ठीक पदम्। तदाह। अह्न इत्यादि । नतु सुपीति । पर्युदामाश्रयणे तु नलिवयुक्तन्यायेन सुब्भिन्ने प्रत्यये परे इत्यर्थस्स्यात् । ततश्च अहर्वानित्यादावेव स्यात् । नत्वहर्भातीत्यादावपि । अत प्रसज्यप्रतिषेध आश्रित । ननु अहन् इत्यस्य रुस्स्यात् पदान्ते, इत्यर्थकेन अहन्नितिसूत्रेणैव सिद्धत्वात् किमर्थमिदमित्यत आह । रोरपवाद इति । अहरहरिति ॥ नित्यवीप्सयोरिति द्विर्वचनम्। अहन् अहन् इति स्थिते रत्वम्। न लुमता' इति निषेधात् सुपरकत्वाभाव । अहन्निति रुत्वे तु अतोरोरप्लुतादित्युत्व स्यात् । अहर्गण इति । अह्णा गण इति विग्रह । अहन्निति रुत्वे तु दृशि चेत्युत्व स्यात् । अहो भ्यामिति । अहन् म्या इति स्थिते नकारस्य सुपरकत्वान्न रेफ । अत्रेति । अहन्निति रुत्वे हशिचेत्युत्वे आद्गुण । रूपरात्रि । अहन्शब्दस्येति शेष । रोऽसुपीति रत्वस्यापवाद । अहोरूपमिति । अहो रूपमिति विग्रह । अहन् रूपामिति स्थिते नकारस्य रुत्वम्, उत्वम् आद्गुण । रत्वे तु हशिचेत्युत्वन्न स्यात् । गतमहोरात्रिरेषेति ॥ अहन् रात्रिरिति स्थिते रुत्वम्, उत्वम्, आद्गुण । रत्वे तु उत्वन्न स्यात्। ननु अहश्च रात्रिश्चेति द्वन्द्वे, अहस्सर्वैकदेशेत्या दिना समासान्ते अचि, यस्येति चेति लोपे, अहन् रात्र इति स्थिते, नकारस्य रुत्वे, उत्वे, आद्गुणे ‘रात्राह्वाहा पुसि’ इति पुस्त्वे, अहोरात्र इति रूपम्। अत्र नकारस्य रात्रिशब्दपरकत्वाभावात्कथ रुत्वम् । ततश्च रोऽसुपीति रत्वे उत्वन्नस्यादित्यत आह । एकदेशेति । अहोरथन्तरमिति ॥ अहश्च रथन्तरच्चेति द्वन्द्व । रथन्तर सामविशेष । अहरादीनाम् ॥ ननु अहरादीनामिति रेफ विशिष्टस्य उपादानात् रेफस्य रेफविधान व्यर्थमित्यत आह । विसर्गापवाद इति । अह र्पतिरिति ॥ अहा पतिरिति विग्रह । गीर्पतिरिति । गिरा पतिरिति विग्रह । धूर्पति रिति ॥ धुरा पतिरिति विग्रह । उभयत्रापि “र्वोरुपधाया' इति दीर्घ । पक्ष इति । रत्वा भावपक्षे विसर्गस्य कुप्वोरिति उपध्मानीयविसगौं । इदुपधस्येति तु तपरकरणान्न । रो रेि ॥ र इति षष्ठी । ‘ढो ढे लोप' इत्यतो लेोप इत्यनुवर्तते । तदाह । रेफस्येति । पुनर् रमते इति 14