पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११
बालमनोरमा

एतयोविसर्गस्य सादेश स्यात्पदशाब्दे परे । अधस्पदम् । शिरस्पदम् । समास इत्येव । अध पदम् । शिर पदम् । अनुत्तरपदस्थस्येत्येव । परमशिर पदम् । कस्कादिषु च । भास्कर ।

॥ अथ विसर्गसन्धिप्रकरणम् ।

'स्वौजसमौट्-' (सू १८३) इति सुप्रत्यये 'शिवम् अर्च्र्य ' इति स्थिते ।

१६२ । ससजुषो रुः । (८-२-६६)

पदान्तस्य सस्य * सजुष्' शब्दस्य च रु स्यात् । जश्त्वापवाद !

१६३ । अतो रोरप्लुतादुप्लुते । (६-१-११३)

अग्लुतादत परस्य रोरु स्यादप्लुतेऽति । “ भोभगोअघो–' (सू १६७) इति प्राप्तस्य यत्वस्यापवाद । उत्वं प्रति रुत्वस्यासिद्धत्व तु न भवति । रुत्व मनूद्योत्वविधे सामर्थ्यात् ।


मिति ॥ पदस्याध इति विग्रह । मयूरव्यमकादित्वान् समास । शिरस्पदमिति ॥ शिरस पदमिति विग्रह । सौत्रक्रममनुरुद्ध पुनराह। कस्कादिषु चेति । भास्कर इति । अत इति तपरकरणादत कृकमीत्यस्य न प्राप्तिरिति सत्वप्राप्त्यर्थ कस्कादौ भास्करशब्दस्य पाठ इति भाव । स्वौजसमौडिति । ससजुषो रुः ॥ ससजुषो रु इति श्छेद । 'रोग् ि? इति रेफलोप । सश्च सजूश्च मसनुप्रै तरिति विग्रह । रुविधौ उकार इत्। तत्फल त्वनुपदमेव वक्ष्यते । स इति पदस्येत्यविकृत सकारेण सजुष्शब्देन च विशेष्यते अतस्तदन्तविधि । सकारान्त सजुष्शव्दान्तच्च यत्त पद तस्य रस्स्यादिति । सच अलोऽन्त्यस्ये त्यन्त्यस्य भवति । ततश्च फलितमाह । पदान्तस्य सस्येति । सजुष्शब्दस्य चेति ॥ सजुषशब्दान्त यत् पद तदन्तस्य षकारस्येत्यर्थ । ततश्च सजुपौ सजुष इत्यत्र पकारस्य न रुत्वम्। पदान्तत्वाभावात् । सजुषशव्दान्त यत्पदमिति तदन्तविधिना परमसजूरित्यत्र नाव्याप्ति । नच मजूरित्यत्राव्याप्तिश्शङ्कया । व्यपदेशिवद्भावेन तदन्तत्वात् । ‘व्यपदेशिवद्रावोऽप्रातिपदिकेन'इति, ग्रहणवत्ता प्रातिपदिकेन तदन्तविधिर्न' इति च, परिभाषाद्वय प्रत्ययग्रहणे यस्मादिति विषय, नतु येनविधिरिति विषयमिति ‘असमासे निष्कादिभ्य' इति सूत्रे भाष्ये स्पष्टम् । ननु शिवस् इति सका रस्य 'झलाञ्जशोऽन्त’ इति जश्त्वेन दफकारस्स्यात् । जश्त्व प्रति रुत्वस्य परत्वेऽपि असिद्धत्वात् । इत्यत आह । जश्त्वापवाद् इति । तथा च रत्वस्य निरवकाशत्वान्नासिद्धत्वमिति भाव । तदुक्त भाष्ये। ‘पूर्वत्रासिद्धेनास्ति विप्रतिषेधोऽभावादुत्तरस्य’ इति, अपवादो वचनप्रामाण्यात्’इति