(सू ३३३२) । ३५६० । वक्त्वापि च्छन्दसि (७-१३८) । यजमान परिधापयित्वा ॥ ३५६१ । सुपा सुलुक्पूर्वसवर्णाच्छेयाडाडयायाजाल" (७-१-३९) । 'ऋजवः सन्तु पन्था । पन्थान इति प्राप्ते सु । 'परमे व्योमन् ' । “ व्योमनि ' इति प्राप्त डेलुक् । धीती । मती । सुष्ठुती । धीत्या मल्या सुश्रुत्येति प्राप्त पूर्वसवर्णदीर्घ । 'या सुरथा रथीतमा दिविस्पृशा अश्विना' । 'यौ सुरथौ दिविस्पृशौ' इत्यादौ प्राप्त आ । “नताद्राह्मणम्’ । नतमिति प्राप्त आत् । 'यादेव विद्म तात्वा' । यन्तमिति प्राप्त । “न युष्म वाजबन्धव.' । “अस्मे इन्द्रा बृहस्पती' । युष्माखस्मभ्यमिति प्राप्त शे । उरुया । धृष्णुया । उरुणा धृष्णुनेति प्राप्त या । नाभा पृथिव्या ’ । नाभाविति प्राप्त डा । “ता अनुष्ठयोच्यावयतात्' । अनुष्ठानमनुष्ठा । व्यवस्थावदड् । आडो डया । साधुया । साध्विति प्राप्ते याच । 'वसन्ता यजेत' । वसन्त इति प्राप्त आलु । 'इयाडियाजीकाराणामुपसख्यानम्' (वा ४३०८) । उर्विया । दार्विया । उरणा दारुणेति प्राप्त इया । सुक्षेत्रिया । सुक्षेत्रिणेति प्राप्त डियाच् । 'दृतिं न शुष्क सरसी शयानम्' । डेरीकार इत्याहुः । तत्राद्युदात्ते पदे प्राप्त व्यत्ययेनान्तोदात्तता । वस्तुतस्तु डीषन्तान्डेलुक् । इंकारादेशस्य तूदाहरणान्तर मृग्यम् । “ आडयाजयारामुपसख्यानम्' (वा ४३०९) । 'प्रवाहवा सिसृतम्' । बाहुनेति प्राप्त आडादेशः । ‘घेर्डिति' (सू २४५) इति गुणः । स्वद्रया । स्वप्रेनेति प्राप्तऽयाच् । 'स न. सिन्धुमिव नावया ' । नावेति प्राप्तऽयार् । रित्स्वर । ३५६२ । अमो मश् (७-१ ४०) । मिबादेशस्यामो मश् स्यात् । अकार उच्चार णार्थः । शित्वात्सर्वादेशः । “अस्तिसिचः-' (सू २२२५) । इति ईट् । ‘वधी वृत्रम् ' । अवधिषमिति प्राप्त ॥ ३५६३ । लोपस्त आत्मनेपदेषु (७ १ ४१) । छन्दसि । “देवा अदुह' । अदुहतेति प्राप्ते । “दक्षिणतः शये ' । शेत इति प्राप्त । “आत्मने-' इति किम् । उत्सं दुहन्ति' ।। ३५६४ । ध्वमो ध्वात् (७-१-४२) । ध्वमो ध्वादित्यादेशः स्याच्छन्दसि । अन्तरेवोष्माणं वारयध्वात्' । वारयध्वमिति प्राप्ते ।। ३५६५ । यजध्वैनामिति च (७-१-४३)। एनमित्यस्मिन्परे ध्वमोऽन्तलोपो निपात्यते । यजध्वैन प्रियमेधाः’ । “वकारख्य यकारो निपात्यते' इति वृत्तिकारोक्तिः प्रामादिकी ॥ ३५६६ । तस्य तात् (७१-४४) । लोटो मध्यमपुरुषबहुवचनस्य स्थाने तात्स्यात् । 'गात्रमस्यानून कृणुतात्' । कृणुतेति प्राप्ते । सूर्य चक्षुर्गमयतात्’ गमयतेति प्राप्ते ॥ ३५६७ । तप्तनप्तनथनाश्च । (७-१-४५) । तस्येत्येव । शृणेोत ग्रावाण. । शृणुतेति प्रान्ते तप् । ‘सुनोतन पचत ब्रह्मवाहसे दधातन द्रविण चित्रमस्मै' । तनप् । 'मरुतस्तज्जुजुष्टन' । जुषध्वमिति प्राप्ते व्यत्ययेन परस्मैपदं श्लुश्च । “विश्वे देवासो मरुतो यति छन' । यत्सख्याकाः स्थेत्यर्थः । यच्छब्दाच्छा न्दसा डात । अस्तस्तस्य थनादेश ।। ३५६८ । इदन्तो मसि (७-१-४६) । मसीलयवि भक्तिको निर्देशः । इकार उच्चारणार्थ । मसित्यमिकाररूपचरमावयवविशिष्टः स्यात् । मस इगागमः स्यादिति यावत् । “नमा भरन्त एमास ' । “त्वमस्माक तव समसि' । “इमः’ स्म' इति प्राप्ते ॥ ३५६९ । क्त्वो यक् (७-१ ४७) । ‘दिव सुपर्णो गत्वाय ' ॥ ३५७० । इष्टीनमिति च । (७-१-४८) । क्त्वाप्रत्ययस्य ईनमन्तादेशो निपात्यते । इष्टीनं देवान्’ इट्टेति प्राप्ते ॥ ३५६१ । स्नात्व्यादयश्च (७-१-४९) । आदिशब्दः प्रकारार्थः । आकारस्य ईकारो
पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/९०
दिखावट