पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७२८
सिद्धान्तकौमुद्याम्

परिमाणमित्यर्थे वाच्यः’ (वा ३१३१) । पञ्चदशिनोऽर्धमासाः । त्रिशिनो मासा । “विशतेश्चेति वाच्यम्' (वा ३१३२) । विशिनोऽङ्गिरस । “युष्मदस्मदोः सादृश्ये वतुब्वाच्य.’ (वा ३१३८) त्वावतः पुरूवसो' । “न त्वावा अन्य ' । “यज्ञ विप्रस्य मावतः’ ॥ ३४९२ । छन्दसि च (५-१-६७) । प्रातिपदिकमात्रात् 'तदर्हति' इत्यर्थे यत्स्याच्छन्दसि सादन्य विदथ्यम् ३४९३ । वत्सरान्ताच्छश्छन्दसि (५-१-९१) । निवृत्तादिष्वर्थेषु । इद्वत्सरीय ॥ ३४९४ । सपरिपूर्वात्ख च (५-१-९२) । चाच्छः । सवत्सरीण -सवत्सरीय. । परिवत्सरीण-परि वत्सरीयः ॥ ३८९५ । छन्दसि घस् (५-१-१०६) । ऋतुशब्दात्तदस्य प्राप्तमित्यर्थे । ‘भाग ऋत्वियः ॥ ३४९६ । उपसर्गच्छन्दसि धात्वर्थे (५-१ ११८) । धात्वर्थविशिष्ट साधने वर्त मानात्स्वार्थे वतिः स्यात् । 'यदुद्वतो निवत ' । उद्रतान्निर्गतादित्यर्थ ॥ ३४९७ । थट् च च्छन्दसि (५-२-५०) । नान्तादसङ्खयादेः परस्य डटस्थट् स्यान्मट् च । पञ्चथम्-पञ्चमम् । छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि' (सू १८८९) । 'पर्यवस्थाता शत्रु' । “अपल्य परिपन्थिनम्' । “मा त्वा परिपरिणौ विदन् ’ ॥ ३४९८ । बहुल छन्दसि (५-२-१२२) । मत्वर्थे विनिः स्यात् । 'अन्निस्ते ओजस्वी' । 'छन्दोविन्प्रकरणे अष्ट्रामेखलाद्वयोभयरुजाहृद याना दीर्घश्चति वक्तव्यम्’ (वा ३२११) इति दीर्घ । 'महिष्ठमुभयाविनम्' । 'शुनमष्ट्रा व्यचरत्' । 'छन्दसीवनिपौ च वक्तव्यौ' (वा ३२०२) । इँ । “रथीरभूत्' । “सुमङ्गलारय वधू’ । 'मघवानमीमहे ' ॥ ३४९९ । तयोर्दाहिँलौ च च्छन्दसि (५-३-२०) । इदतदोर्यथा सङ्खय स्त । 'इदा हि वे उपतुतिम्' । तर्हि ॥ ३५०० । था हेतौ च च्छन्दसि (५-३-२६) किमस्था स्याद्धेतौ प्रकारे च । “कथा ग्राम न पृच्छसि ' । “कथा दाशेम' ॥ ३५०१ । पश्च पश्वा च च्छन्दसि (५-३-३३) । अवरस्यास्तात्यर्थे निपातौ पश्व हि स तुश्छन्दसि ' (सू २००७) । तृजन्तान्तृन्नन्ताञ्च इष्टन्नीयसुनौ स्त . । “ आसुति करिष्ठ .’ । दोहीयसी धनु' ॥ ३५०२ । प्रत्रपूर्वविश्वमात्थाल्छन्दसि (५-३-१११) । इवार्थे । “त प्रत्नथा पूर्वथा विश्वथेमथा ' ॥ ३५०३ । अमु च च्छन्दसि (५-४-१२) । किमेतिडव्ययघादित्येव । प्रत नय प्रतराम्' ॥ ३५०४ । वृकज्येष्ठाभ्या तिल्तातिलौ च स्वार्थे च्छन्दसि (५-४-४१) । यो ना दुरवा ऋकात ' । 'ज्येष्ठतातिं बर्हिषदम्' ॥ ३५०५ । अनसन्तान्नपुसकाच्छन्दसि (५-४-१०३) । तत्पुरुषाट्टच्स्यात्समासान्तः । 'ब्रह्मसामं भवति' । “देवच्छन्दसानि' ॥ ३५०६ । बहुप्रजाश्छन्दसि (५-४-१२३) । “बहुप्रजा निक्रतिमाविवेश' ॥ ३५०७ । छन्दसि च (५-४-१४२) दन्तस्य दतृ स्याद्वहुव्रीहौ । 'उभयतोदतः प्रतिगृह्णाति ' ॥ ३५०८ । ऋत इछन्दसि (५-४-१५८) । ऋदन्ताद्वहुव्रीहेर्न कप् । हता माता यस्य हतमाता ॥

इति पञ्चमोऽध्यायः।

एकाचो द्वे प्रथमख' (सू २१७५) । 'छन्दसि वेति वक्तव्यम्' (वा ३४१४) । “यो जागार’ दाति प्रियाणि' ॥ ३५०९ । तुजादीना दीघोंऽभ्यासख्य (६-१-७) । तुजादिराकृतिगण । प्रभरा तूतुजानः’ । “ सूर्ये मामहानम्' । “दाधारः यः पृथिवीम्' । “स तूताव' ॥ ३५१० । बहुल छन्दसि (६-१-३४) । ह्यः सम्प्रसारणं स्यात् । 'इन्द्रमा हुव ऊतये ' । 'ऋचि त्ररुत्तर पदादिलोपश्च छन्दसि' (वा ३४७२) । ऋक्छब्दे परे त्रेः सम्प्रसारणमुत्तरपदादेलोपश्चेति