३३६० । हस्ते वर्तिग्रहोः । (३-४-३९)
हस्तार्थे करणे । हस्तवर्त वर्तयति । करवर्तम् । हस्तेन गुलिकां करो तीत्यर्थः । हस्तग्राहं गृह्णाति । करग्राहम् । पाणिग्राहम् ।
३३६१ । स्वे पुषः । (३-४-४०)
करण इत्येव । ख इत्यर्थग्रहणम् । तेन स्वरूपे पर्याये विशेषे च णमुल् । स्वपोषं पुष्णाति । धनपोषम् । गोपोषम् ।
३३६२ । अधिकरणे बन्धः । (३-४-४१)
चक्रबन्ध बध्राति । चक्रे बभ्रातीलयथे
३३६३ । संज्ञायाम् । (३-४-४२)
बाभ्रातेर्णमुल्संज्ञायाम् । क्रौञ्चबन्धं बद्धः । मयूरिकाबन्धम् । अट्टालि कावबन्धम् । बन्धविशेषाणां संज्ञा एता ।
३३६४ । कत्रेजीवपुरुषयोर्नशिवहोः । (३-४-४३)
जीवनाशं नश्यति । जीवो नश्यतीत्यर्थः । पुरुषवाहं वहति । पुरुषो वहतीत्यर्थ
३३६५ । ऊध्र्वे शुषिपूरोः । (३-४-४४)
ऊध्र्वे कर्तरि । ऊध्र्वशोषं शुष्यति । वृक्षादिरूध्र्व एव तिष्ठञ्छुष्यती त्यर्थः । ऊध्र्वपूरं पूर्यते । ऊध्र्वमुख एव घटादिर्वषोदकादिना पूर्णो भवतीत्यर्थः ।
३३६६। उपमाने कर्मणि च । (३-४-४५)
उदादेशः । हस्ते वर्तिग्रहोः ॥ पञ्चम्यर्थे षष्ठी । हस्त इत्यर्थग्रहणम् व्याख्यानात् । तथा च हस्तार्थक इति लभ्यते, करण इत्यनुवर्त्तते, तदाह । हस्तार्थे करणे इति ॥ करणकारकी भूतहस्तपर्याये उपपदे ण्यन्तवृतुधातोहधातोश्च णमुलित्यर्थः । स्वे पुषः ॥ अर्थग्रहण मिति ॥ व्याख्यानादिति भाव. । तेनेति ॥ खरूपे खशब्दे खपर्याये धनादिशब्दे विशेषेषु खविशेषवाचिगवादिशब्देषु चापपदषु णमुलित्यर्थः । एतच 'ख रूपम्’ इांत सूत्र भाष्यं स्पष्टम् । तत्र खशब्दे उपपदे उदाहरति । स्वपोषमिति ॥ धनेन पुष्णातीत्यर्थः । पर्याये उपपदे उदा हरति । धनपोषमिति ॥ स्वविशेष उपपदे उदाहरति । गोपोषमिति ॥ अधिकरणे ॥ अधिकरणे उपपदे बन्धधातोर्णमुलित्यर्थः । संज्ञायाम् ॥ अनधिकरणार्थ आरम्भः । कत्रः॥
- नशिवहोः’ इति पञ्चम्यर्थे षष्ठी । कर्तरि जीवे उपपदे नशेः कर्तरि पुरुषे उपपदे वहधातोर्णमु
लित्यर्थः । ऊध्र्वे शुषि ॥ ऊध्र्वे कर्तरीति ॥ उपपदे शुषेः पूरेश्च णमुलिति शेषः । उपमाने ॥ चात्कर्तरीति ॥ कर्मणि कर्तरि च उपमाने उपपदे धातोर्णमुलित्यर्थः ।