पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६८४
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

समन्तान्मितं निमितम् । निर्विशेषं हन्यन्ते ज्ञायन्ते इति निघाः वृक्षा : । समारोहपरिणाहा: इत्यर्थ ।

३२६६ । ड़ितः क्रिः । (३-३-८८)

अयं भाव एव स्वभावात् । “ क्रेर्मन्नित्यम्' । (सू १५७०) क्रिप्रत्यया न्तान्मप् निवृत्तेऽर्थे नित्यग्रहणात्क्रिर्मविषयः । अत एव क्ञ्यन्तेन न विग्रह । डुपचष् । पाकेन निवृत्तं पक्रिमम् । डुवप् । उष्त्रिमम् ।

३२६७ । ट्टितोऽथुच् । ३-३-८९)

अयमपि स्वभावाद्भाव एव । टुवेपृ । वेपथुः । श्वयथुः ।


इति निपात्यत इत्यर्थ. । इहाप्यप् टिलोपः घत्वञ्च निपात्यते इत्यर्थ । निमितशब्द व्याचष्ट । समन्तान्मितन्निमितमिति । नि. समन्तादित्यर्थे अव्ययानामनेकार्थत्वादिति भाव । निर्विशेषमिति ॥ इह नि इत्यव्यय निर्विशेषे हन्तिज्ञानार्थे इति भावः । समेति ॥ समौ आरोहपरिणाहौ औन्नल्यस्थौल्ये येषामिति विग्रहः । ड़ितः क्रिः ॥ डु इत् यस्य सः ड़ि तस्मात् त्रकप्रत्ययः स्यादित्यर्थः । ककार इत् । अस्य भाव एवाति । अत्र भाव इत्यवानु वर्तते, न तु 'अकर्तरि च कारके' इत्यपीति भाव । स्वभावादिति ॥ पाकादिना निवृत्तमित्यर्थे पक्रिममित्यादौ क्रिप्रत्ययान्तानां पाकादिष्वेव लोके प्रयोगदर्शनादिति भावः । क्रेर्मन्नित्यम ॥ चतुर्थस्य चतुर्थपादे इद सूत्रम् । मप् नित्यमिति छेदः । निवृत्ते इति ॥ निवृत्तऽक्षद्यूतादिभ्य.' इत्यतस्तदनुवृत्तरिति भाव । तद्धितप्रकरणे व्याख्यातमप्येतत् इह स्मरणाय पुनव्याख्यातम् । नन्विह नित्यग्रहण व्यर्थम् । न च “समर्थाना प्रथमाद्वा' इति महावभाषानवृत्त्यथ तादात वाच्यम् । अत्र हि निवृत्तग्रहणमनुवतत । तथा च निवृत्ताथ विवक्षाया क्रिप्रत्ययान्तात् मप्प्रत्ययस्य नित्यतया पक्त्र्यादनिवृत्तामिति वाक्यनिवृत्तावपि पाको ऽस्तीत्यादिवत् पक्तिरस्ति भविष्यतीत्याद्यपि प्रसज्येत । तचानिष्टम् । क्रिप्रत्ययान्तस्य निर्तृत्तार्था विवक्षायामपि सर्वदा मप्प्रत्यशिरस्कताया एवष्टत्वादित्यत आह । नित्यग्रहणादिति ॥ न हि महाविभाषानिवृत्त्यर्थे नित्यग्रहणम् । 'निवृत्तऽक्षयूतादिभ्य क्रतु मप्' इत्येकसूत्रत्वेनैव सिद्धे पृथायोगकरणादेव महाविभाषानिवृत्तिसिद्धेः । तथा च नित्यग्रहणसामथ्यन्नित्यामति योगान्त' विज्ञायते । तथा च निर्तृत्ते इति निवृत्तम् । तथा च क्रिप्रत्ययान्त निर्तृत्तार्थयोगे तदयोगे च सर्वेदा मप्प्रत्ययान्त एव स्यादिति लभ्यते । एवञ्च क्रिप्रत्ययो मप्प्रत्ययं विना केवलः कापि न प्रयुज्यते इति लभ्यते इत्यर्थः । एतञ्च भाष्ये स्पष्टम् । अत एवेति ॥ क्रिप्रत्ययस्य मर्मप्प्रत्ययं विना प्रयोगाभावात् पक्त्र्या निर्तृत्तमिति स्वपदविग्रहो नास्ति । किन्तु पाकेन निवृत्त मित्यस्वपदविग्रह इत्यर्थः । उप्त्रिममिति ॥ कित्त्वात् ‘वविखपि' इति सम्प्रसारणमिति भावः । ट्टितोऽथुच् ॥ अथुजिति छेदः । टु इत् यस्येति विग्रहः । श्वयथुरिति ॥