पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६८२
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता


३२५५ । अन्तर्धनो देशे । (३-३-७८)

वाहीकग्रामविशेषस्य संज्ञेयम् । अन्तर्घणः’ इति पाठान्तरम् ।

३२५१६ । अगौरैकदेशे प्रघणः प्रघाणश्च । (३-३-७९)

द्वारैकदेशे द्वौ प्रकोष्ठावलिन्दौ आभ्यन्तरो बाह्यश्च । तत्र बाह्ये प्रकोष्ठ निपातनमिदम् । प्रविशद्भिर्जनै: पादैः प्रकर्षेण हन्यते इति प्रघण:-प्रघाणः । कर्मण्यप् । पक्षे वृद्धि ।

३२५७ । उद्धनोऽत्याधानम् । (३-३-८०)

अत्याधानमुपरिस्थापनम् । यस्मिन्काठेऽन्यानि काष्ठानि स्थापयित्वा तक्ष्यन्ते तदुद्धनः । अधिकरणेऽप् ।

३२५८ । अपघनोऽङ्गम् । (३-३-८१)

अङ्ग शरीरावयवः । स चेह न सर्वः किं तु पाणिः पादश्चेत्याहुः । करणेऽप । अपघातोऽन्यः ।

३२५९ । करणेऽयोविदुषु । (३-३-८२)

एषु हन्तेः करणेऽप्स्याद्धनादेशश्च । अयो हन्यतेऽनेनेत्ययोघन । विघनः । द्वघनः । दुघणः’ इत्येके । पूर्वपदात्संज्ञायाम्--' (सू ८५७) इति णत्वम् । संझैषा कुठारस्य । दुर्वेक्ष ।


कथमिति ॥ सैन्धवकाठिन्यस्यानयनान्वयासम्भवादिति भावः । समाधत्ते । धर्मशब्दे नेति ॥ अन्तर्धनो देशे ॥ देशविशेषे वाच्ये अन्तरित्युपपदे हन्तेरप् प्रकृतेर्धनादेशश्वेत्यर्थः । निपातनात् “पूर्वपदात्सज्ञायाम्' इति णत्वाभाव । अगारैकदेशे ॥ अगारैकदेशशब्देन अगरेकदेशविशेषो विवक्षितः, व्याख्यानात् । तदाह । द्वारैकदेश इत्यादि ॥ प्रकोष्ठौ दीर्धचतुरश्रधिष्ण्यौ तौ अलिन्दनामानौ प्रवेशयोग्यौ । उद्धनोऽत्याधानम् ॥ अत्याधानं वाच्यश्चेत् उत्पूर्वात् हन्तेरप् । हस्य घत्वे च उद्धन इति निपात्यते इत्यर्थः । अपघनोऽङ्गम् ॥ अङ्ग वाच्यञ्चेत् अपपूर्वाद्धन्तेरप् । हस्य घत्वे चापघन इति निपात्यते इत्यर्थः । पाणिः पादश्चेति । अत्र व्याख्यानमेव शरणम् । करणे इति ॥ अपहन्यतेऽनेनेति करण व्युत्पत्तरिति भावः । करणेऽयोविदुषु ॥ अयस्, वि, दु, एषां द्वन्द्व . । दुघन इति ॥ असंज्ञात्वात् 'पूर्वपदात्सज्ञायाम्' इति न णत्वमिति भाव. । सज्ञात्वमते आह । दुधण इति ॥