पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६७०
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता
              ३१९१ । इङश्च । (३-३-२१)

घञ् । अचोऽपवादः । उपेत्यास्माद्धीयते उपाध्यायः । “ अपादान स्त्रियामुपसंख्यानं तदन्ताच वा डीष्' (वा २१८४) । उपाध्याया—उपाध्यायी । शू वायुवर्णनिवृतेषु' (वा २१८५) । * शू' इत्यविभक्तिको निर्देश । शारो वायुः । करणे घञ् । शारो वर्णः । चित्रीकरणमिह धात्वर्थः । नित्रियते आव्रियतेऽनेनेति निवृतमावरणम् । बाहुलकात्करणे त्क्त. । “गौरिवाकृतनीशार प्रायेण शिशिरे कृश:’ । अकृतप्रावरण इत्यर्थः । प्रदक्षिणप्रसव्यगामिनां शारा णाम्' इति वार्तिककारप्रयोगाद्क्षेष्वपि शार इति भवति ।

            ३१९२ । उपसर्गे रुवः । (३-३-२२)

उपसर्गे' किम् । रव

        ३१९३ । अभिनिसः स्तनः शब्दसंज्ञायाम् । (८-३-८६)

अस्मात्स्तनः सस्य मूर्धन्यः अभिनिष्टानो वर्णः । शब्दसंज्ञायां किम् अभिनिःस्तनति मृदङ्गः ।


वृद्धिरस्त्विति वाच्यम् । 'जनीजूष्क्रसुरञ्जोऽमन्ताश्च' इति मित्वे 'मिता हस्व.' इति णिनि मित्तकहस्वापत्ते । णिलुकि तु तस्य परनिमित्तकत्वाभावेन स्थानिवत्वाभावान्न हस्वप्रसङ्गः । तदाह । जरयतीति जार इति ॥ उपपतिरिति ॥ “जारस्तूपपतिस्समौ' इत्यमरः । इङश्च ॥ घञ्जिति शेषपूरणम् । ‘इड् अध्ययने'नित्यमधिपूर्वः। अस्मादकर्तरि कारके घनित्यर्थः। अकर्तरि चेति सिद्धेराह । अचोऽपवाद् इति ॥ 'एरच' इयस्यापवाद इत्यथै. । उपेत्येति ॥ समीपम्प्राग्य यस्मादधीते स उपाध्यायः इत्यथे । अपादाने घनिति भाव. । 'आख्यातोपयोगे इत्यपादानत्वम् । अपादाने इति ॥ अपादानकारके वाच्ये त्रीत्वे गम्ये इडो घञ्ज उपसङ्खया नमित्यर्थः । तदन्ताञ्च वा डाषात ॥ वार्तिकम् । “ अपादाने स्त्रियाम्' इति विहितघञ् न्तातू इत्यर्थः । अत्र पठितमेव वार्तिक स्त्रीप्रत्ययाधिकारे या तु खयमेव अध्यापिका, तत्र वा डीषित्युपन्यस्त मूले । ननु “ अकर्तरि च' इत्येव सिद्धे किमर्थङ्को विधानमिति चेन्न । घअनुक्रमणमजपोर्विषये' इति ‘एरच’ ‘ऋदोरप्' इत्यजपोरेव विषये ‘अकर्तरि च' इति घञ्वि धिरिति भाष्यवचनात् स्त्रीत्वे गम्ये 'त्रियां क्तिन्' इति क्तिन्विषये घनि अप्राप्त “ अपादाने उपाध्यायात उपेत्य अस्यास्सकाशादधीयते इत्यर्थ शूवाग्विति ॥ वार्तिकम् । अविभांक्तिवकमिति ॥ लुप्तपञ्चमीकमित्यर्थः । वायौ वणे निवृत्ते च कर्तरि शृधातोर्घजित्यर्थः । अपेोऽपवादः । इशारो वायुरिति ॥ शीर्यन्ते पर्ण फलादीनि यैरिति विग्रहः । तदाह । करणे घञ्जिति ॥ चित्रीकरणमिति ॥ शीर्यन्ते चित्रीक्रियन्ते पटादय अनेनेति भावः । गौरिवेति ॥ भाष्यस्थ श्लोकार्धम् । नशिार इत्यत्र उपसर्गस्य घा'ि इति दीर्घः । अक्षे शारशब्द साधयति । प्रदक्षिणेति ॥ वार्तिककार प्रयोगादिति ॥ पञ्चमस्य द्वितीये'अनुपदसर्वान्नायानयम्’ इति सूत्रभाष्ये स्थितमिदम्। उपसर्गे