पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६६६
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता
        ३१८० । भाववचनाश्रव । (३-३-११)
   भाव इत्यधिकृत्य वक्ष्यमाणा घञ्पादय: क्रियार्थायां क्रियायां भविष्यति

स्युः । यागाय यात । “तुमर्थान्' (सू ५८२) इति चतुर्थी ।

        ३१८१ । अण्कर्मणि च । (३-३-१२)
   कर्मण्युपपदे क्रियार्थायां क्रियायां चाण्स्यात् । ण्वुलोऽपवादः । काण्ड

लावो व्रजति । परत्वाद्यं कादीन्बाधते । कम्बलदायो ब्रजति ।


इत्यथ । भाववचनाश्च ॥ क्रियार्थाया क्रियायामिति भविष्यतीति चानुवर्तते । भावे चेत्यव सिद्धे वचनग्रहणस्य प्रयोजनमाह । भाव इत्यधिकृत्येति । भावे इत्यधिकृत्य घञादयो विधास्यन्ते ये सामान्यतः ते क्रियार्थाया क्रियायां उपपदे भविष्यति काले विशेष विहितेनापि तुमुना समुचिता भवन्तीत्यथे । न च वाऽसरूपविधिना सिद्धमेतदिति शङ्कयम् । क्तत्युट् तुमुन् खलर्थेषु वाऽमरूपविधिनस्ति ’ इत्युत्तेरिति भावः । ननु यागाय यात्तात्यत्र यागस्य सम्प्रदानवाभावात् कथ चतुर्थीः नापि तादर्थ्य चतुर्थी तादर्थ्यर्च्य प्रत्ययेनैव लभा- दित्यत आह । तुमर्थादिति ॥ अण् कर्मणि व । चकारण क्रियार्थाया क्रियायामिति समुच्ची नदाह । क्रियार्थायां क्रियायाश्चेति ॥ तथा च क्रियार्थाया क्रियया कर्मणि चेत्थुपपदद्वये सत्येवास्य प्रवृत्तिः नान्यतरस्मिन्निति भाष्ये स्पष्टम् । कथैकोऽयमणु । कर्तरि कृदित्यधिकारात् । अत्र ' ण्वुल्तृचौ' इति बाधित्वा “कर्मण्यण्’ इति सामान्यविधिना अण् प्राप्त. तन्तावत्क्रियार्थाया क्रियायामुपपदे विशेषविहितस्तुमुन्ण्वुलाविति ण्वुल् बाधितुमुद्युद्धे पुनण्र्खल्विधिसामथ्येन वाऽसरूपविधरत्राप्रवृत्तेरुक्तत्वात् । तमिम ण्वुलम्बाधितुमयमण्विधिः । तदाह । ण्वुलोऽपवाद् इति ॥ 'तुमुन्एबुलौ' इति विहितस्य ण्वुलोऽपवाद इत्यथेः । एवञ्च ण्वुला बाधितस्य “कर्मण्यण्’ इत्यस्य अयमण्विधिः प्रतिप्रसवार्थ इति स्थितम् । ननु ण्वुला बाधितस्याण. प्रतिप्रसवेऽपि “ आतोऽनुपसर्गे' इति कप्रत्यय. कम्बलदायो व्रजतीत्यत्र दुर्निवारः । कप्रत्ययख्य कर्मण्यणपवादत्वात् सरूपत्वेन च वाऽसरूपविध्यप्रवृत्तेः । न चाय वैशेषिकोऽण्विधिः कप्रत्ययस्याप्यपवाद इति शङ्कयम् । न ह्ययमपूर्वोऽण्विधि । किन्तु लाघवात् कर्मण्यण्’ इत्यणेवात्र प्रतिप्रसूयते । सच “कर्मण्यण् इत्यण् सामान्यविहितः “ आतोऽनुपसर्गे क ' इति वैशेषिकस्य नापवाद' । प्रत्युत कप्रत्यय एव तदपवाद । अतः कम्बलदायो व्रजती त्यत्र कर्मण्यणपवाद तुमुन्प्चुलाविति ण्चुलम्बाधित्वा कप्रत्ययः स्यादित्यत आह । परत्वाद्यं कादीन् बाधते इति ॥ आदिना सामगो गुरुकुल व्रजतीत्यादौ गापोष्टगित्यादिसङ्गहः । अण्कर्मणि चेति ह्यावर्तते । प्रतिप्रसवविधिरपूर्वविधिश्च । तत्र प्रतिप्रसवविधिना ण्वुला अणो बाधनिवृत्ति । अपूर्वविधिविहितस्य त्वण. तृतीयपादीयस्य द्वितीयपादस्थकप्रत्ययापेक्षया परत्वात् कादिप्रल्या अणा अनेन बाध्यन्त इत्यर्थः । एतच भाष्ये स्पष्टम् । इत ऊथ्वेम् “लट् शेषे च' इत्यादिसूत्रेषु क्रियार्थाया क्रियायामिति निवृत्तम् । भविष्यतीत्येवानुवर्तते इति