पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६६४
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

एतौ संप्रदाने कारके निपात्येते । दाशन्ति तस्मै दाश । गां हन्ति तस्मै गोत्रोऽतिथिः ।

 ३१७३ । भीमाद्योऽपादाने । (३-४-७४)

भीमः । भीष्मः । प्रस्कन्दनः । प्ररक्षः । मूर्खः । खलति ।

 ३१७४ । ताभ्यामन्यत्रोणाद्यः । (३-४-७५)

संप्रदानापादानपरामशर्थ ताभ्यामिति । ततोऽसौ भवति तन्तुः । वृत्तं तदिति वत्र्म । चरितं तदिति चर्म ।

 ३१७५ । तुमुन् बुलौ क्रियायां क्रियार्थायाम् । (३-३-१०)

क्रियार्थायां क्रियायामुपपदे भविष्यत्यर्थे धातोरेतौ स्त । मान्तत्वाद्व्य यत्वम् । कृष्णं द्रटुं याति । कृष्णं दर्शको याति । अत्र वाऽसरूपेण तृजादयो न। पुनर्ण्वुलुक्तेः ।

 ३१७६ । समानकर्तृकेषु तुमुन् । (३-३-१५८)

अक्रियार्थोपपदार्थमेतत् । इच्छार्थेष्वेककर्तृकेघूपपदेषु धातोस्तुमुन्ख्यात् । इच्छति भोक्तुम् । वष्टि वाञ्छति वा ।


तुमुन्ण्वुलौ ॥ क्रियार्थायामिति ॥ क्रयोद्देश्यभूतक्रियावृत्तिधातौ उपपदे इत्यर्थ भविष्यतीत्यनुवर्तते । तुमुनि नकार इत् मकारादुकार उच्चारणार्थ. । ण्वुलि णलावितौ, वोरका देशः । मान्तत्वादिति ॥ तुमुनेो मान्तकृत्वात् “कृन्मेजन्त' इत्यव्ययत्वमित्यर्थः । ततश्च “अव्ययकृतो भावे' इति वचनाद्रावे तुमुन् । ण्वुल् तु कर्तर्येव । कृष्णं द्रष्टुमिति ॥ 'न लोकाव्यय' इति न षष्ठी । कृष्णकर्मक भविष्यद्दर्शनार्थ यानमित्यर्थः । अत्र यातीत्युपपदम् । अत्र तुमुन्प्रत्ययप्रकृत्यर्थस्य दर्शनस्य यानाथेत्व तुमुना द्योत्य वाच्य वा । कृष्णं दर्शको यातीति ॥ कृष्णं द्रक्ष्यन् तदर्थ यातीलयर्थ । “ अकेनोर्भविष्यदाधमण्र्ययो ' इति न षष्ठी । ननु तुमुनो भावार्थकत्वे तद्विषये कर्तरि विहिताना तृजादीनामप्रवृत्तावपि ण्वल्विषये कर्तरि तृजादयः कुतो न स्यु । न च विशेषविहितेनानेन ण्वुला तृजादयो बाध्यन्ते इति वाच्यम् । वासरूपविधिना तद्वाधस्य पाक्षिकत्वादित्यत आह । अत्रेति । क्रियार्थक्रियेोपपदे विषये वासरूपविधिना पक्षे प्राप्ताः ये तृजादयस्ते न भवन्तीत्यर्थः । आदिना “नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः’ इत्यादिसङ्गहः । कुतोऽत्र तृजादयो नेत्यत आह । पुनर्ण्वुलुक्तेरिति ॥ ण्वुल् तृचौ' इति कालसामान्ये कर्तरि विहितो ण्वुल् क्रियार्थक्रियोपपदे विषये भवतीति पुनरिह ण्वुल्विधानात् तदितरतृजादयो न भवन्तीति विज्ञायते इति भावः । समानकर्तृ केषु ॥ तुमुन्ण्वुलौ क्रियायाम् इत्येव सिद्धे किमर्थमिदमित्यत आह । आक्रियार्थेति