पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७५५
स्वरप्रकरणम् ।

गुप्तार्मम् । कुक्कुटार्मम् । ‘अवर्णम्’ किम् । वृहदर्मम् । ‘द्यच्त्र्यच्’ किम् । कपिञ्ज लामेम् । अमहन्नवन्नित्येव । महार्मम् । नवार्मम् ॥ ३८२५ । न भूताधिकसञ्जीवमद्राश्म कज्जलम् । (६-२-९१) । अर्मे परे नैतान्याद्युदात्तानि । भूतार्मम् । अधिकार्मम् । सञ्जीवार्मम् । मद्राइमग्रहण सङ्घातविगृहीतार्थम् । मद्रार्मम् । अश्मार्मम् । मद्राश्मार्मम् । कज्जलार्मम् । ‘आद्यु दात्तप्रकरणे दिवोदासादीना छन्दस्युपसङ्खयानम्’ (वा ३८४०) । ‘दिवोदासाय दाशुषे' ॥ ३८२६ अन्तः (६-२-९२) । अधिकारोऽयम् प्रागुत्तरपदादग्रहणात् ३८२७ । सर्वे गुणकात्स्न्यें (६-२-९३) । सर्वशब्दः पूर्वपदमन्तोदात्तम् । सर्वश्वतः । सर्वमहान् । 'सर्वम् किम् । परमश्वेतः । आश्रयव्याप्त्या परमत्व वेतखेति गुणकात्स्न्यें वर्तते । “गुण-' इति किम् । सर्वसौवर्ण । 'कात्स्न्ये' किम् । सर्वेषां श्वततरः सर्वश्वतः ॥ । सज्ञाया ३८२८ गिरिनिकाययोः (६-२-९४) । एतयोः परतः पूर्वमन्तोदात्तम् । अञ्जनागिरिः । मौण्डनिकायः । संज्ञायां' किम् । परमगिरिः । ब्राह्मणनिकायः ॥ । कुमार्या वयसि (६-२-९५) । ३८२९ पूर्वपदमन्तोदात्तम् । वृद्धकुमारी । कुमारीशब्दः पुसा सहासप्रयोगमात्र प्रवृत्तिनिमित्तमुपादाय प्रयुक्तो वृद्धादिभिः समानाधिकरण: । तच्च वय इह गृह्यते न कुमारत्वमेव । “वयसि' किम् । परमकुमारी ॥ ३८३० । उदकेऽकेवल (६-२-९६) । अकेवल मिश्र तद्वाचिनि समास उदके पर पूर्वमन्तोदात्तम् । गुडोदकम् । खरे कृतेऽत्र एकादेशः । 'स्वरितो वानुदात्ते पदादौ (सू ३६५९) । इति पक्षे स्वरितः । “ अकेवले' किम् । शीतेोदकम् ॥ ३८३१ । द्विगौ क्रतौ (६-२-९७) । द्विगावुत्तरपदे क्रतुवाचिनि समासे पूर्वमन्तोदात्तम् । गर्गत्रिरात्र । 'द्विगो किम् । अतिरात्रः । ‘कतौ' किम् । बिल्वहोमस्य सप्तरात्रेो बिल्वसप्तरात्रः ॥ ३८३२ । सभायां नपुंसके (६-२-९८) । सभायां परतो नपुंसकलिङ्गे समासे पूर्वमन्तोदात्तम् । गोपाल सभम् । स्त्रीसभम् । ‘सभायाम्' किम् । ब्राह्मणसेनम् । 'नपुसके' किम् । राजसभा । प्रतिपदोक्तनपुसकग्रहणान्नेह । रमणीयसभम् ब्राह्मणकुलम् ॥ ३८३३ । पुरे प्राचाम् । (६-२-९९) । देवदत्तपुरम् । नान्दीपुरम् । 'प्राचाम्' किम् । शिवपुरम् ॥ ३८३४ । अरिष्टगौडपूर्वे च (६-२-१००) । पुरे परेऽरिष्टगौडपूर्वे समासे पूर्वमन्तोदात्तम् । आरिष्टपुरम् । गौडपुरम् । ‘पूर्व' ग्रहण किम् । इहापि यथा स्यात् । अरिष्टाश्रितपुरम् । गौडभृत्यपुरम् ॥ ३८३५ । न हास्तिनफलकमार्दया' (६-२-१०१) । पुर पर नैतान्यन्तोदात्तानि । हास्तिनपुरम् । फलकपुरम्। मार्देयपुरम्। मृदेरपत्यमिति शुभ्रादित्वात् ढक् ॥ ३८३६ । कुसूलकूपकुम्भशाल बिले (६-२-१०२) । एतान्यन्तोदात्तानि बिले परे । कुसूलबिलम्। कूपबिलम् । कुम्भबिलम । शालाबलम् । “कुसूलादि' किम्। सपबिलम् । “बिल' इति किम् । कुसूलस्वामी ॥ ३८३७ । दिक्छब्दा ग्रामजनपदाख्यानचवानराटेषु (६-२ १०३) । दिक्छब्दा अन्तोदात्ता भवन्त्येषु । पूर्वेषुकामशमी । अपरकृष्णमृत्तिका । जनपद । पूवपञ्चाला । आख्यान । पूवयायातम् । पूर्ववचानराटम् । शब्दग्रहण कालवाचादक्छब्दस्य पारग्रहाथमम् ॥ ३८३८ । आचायापसजन श्रान्तेवासिनि (६-२-१०४) । आचार्योपसर्जनान्तेवासिनि परे दिक्छब्दा अन्तोदात्ता भवन्ति । पूर्वपाणिनीयाः । “ आचार्य-' इति किम् । पूर्वान्तेवासी । ‘अन्तवासिनि' किम् । पूर्वपाणनीय शास्त्रम् ॥ ३८३९ । उत्तरपदवृद्धो सर्व च (६-२-१०५) । उत्तरपदस्येत्यधिकृत्य या वृद्धिर्विहिता