पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७५३
स्वरप्रकरणम् ।

इति किम् । आर्यक्षत्रिय । कर्मधारय इत्येव ॥ ३७९३ । राजा च (६-२-५९) । ब्राह्मण कुमारयोः परता राजा वा प्रकृत्या कमधारय । राजब्राह्मणः । राजकुमारः । योगविभाग उत्तरार्थः ॥ ३७९४ । षष्ठी प्रत्येनसि (६-२-६०) । षष्ठयन् । राजा प्रत्येनासि परे वा प्रकृत्या । राजप्रल्येनाः । ‘षष्ठी' किम् । अन्यत्र न ॥ ३७९५ । क्ति नित्या (६-२-६१)। क्तान्ते परे निल्यार्थे समासे पूर्व वा प्रकृत्या । नित्यप्रहसित ” । 'काला' (सू ६५०) इति द्वितीयासमासोऽयम् । नित्यशब्दस्यबन्त आद्युदात्तः । प्रहसित इति थाथादिखरेणान्तोदात्त'। ‘नित्यार्थे'किम्। मुहूर्त प्रहसितः ॥ ३७९६ । ग्रामः शिल्पिनि (६-२-६२) । वा प्रवृ त्या । प्रामनापित. । ग्रामशब्द आद्युदात्तः । 'ग्राम ' किम् । परमनापितः । 'शिल्पिनि ' । कम् । प्रामरथ्या ॥ ३७९७ । राजा च प्रशसायाम् (६-२-६३) । शिल्पिवाचिनि परे प्रशसाथै राजपद वा प्रकृत्या । राजना पितः । राजकुलाल । “प्रशसायाम्' किम् । राजनापितः । 'शाल्पान' किम् । राजहस्ती ॥ ३७९८ । आदिरुदात्तः (६-२-६४) । अधिकारोऽयन् ॥ ३७९९ । सप्तमीहारिणौ धम्र्ये ऽहरणे (६-२-६५) । सप्तम्यन्त हारिवाचि च आद्युदात्त धम्र्ये परे । देय य. स्वीकरोति स हारीत्युच्यते । धम्र्यमित्याचारनियत देयम् । मुकुटेकार्षापणम् । हलेद्विपदिका (सू ७२१) इति सप्तमीसमास ' । 'कारनान्नि च-' (सू ९६८) इत्यलुक् । याज्ञिकाश्च । वैयाकरणहस्ती । कचिदयमाचारो मुकुटादिषु कार्षापणादि दात. य याज्ञिकादीनां त्वश्वादिरिति ।

  • धम्र्ये-' इति किम् । स्तम्बेरम । “अहरणे ' किम् । वाडवहरणम् । वडवाया अय

वाडवः । तस्य बीजनिषेकादुत्तरकाल शरीरपुष्टयर्थ यद्दीयते तद्धरणमित्युच्यते । परोऽपि कृत्खरो हारिस्वरेण बाध्यते इत्यहरण इति निषेधेन ज्ञायते । तेन वाडवहार्यम् इति हारिस्वरः सिध्यति ॥ ३८०० । युक्त च (६-२-६६) । युक्तवाचिनि समासे पूर्व माद्युदात्तम् । गोवलव । 'कर्तव्ये तत्परो युक्तः' ।। ३८.१ । विभाषाभ्यक्षे (६-२-६७) । गवाध्यक्षः । ३८०२ । पाप च शिल्पिनि (६-२-६८) । पापनापित । 'पापाणके-' (सू ७३३) इति प्रतिपदोक्तस्यैव ग्रहणात्षष्ठीसमासे न ॥ ३८०३ । गोत्रान्तेवासिमाणव ब्राह्मणेषु क्षेपे (६-२-६९) । भयांसौश्रुत । सुश्रुतापयस्य भायाप्रधानतया क्षप । अन्ते वासी । कुमारीदाक्षा . । ओदनपाणिनीयाः । कुमार दिलाभकामा ये दाक्ष्यादिभिः प्रोक्तानि शास्राण्यधीयते त एव क्षिग्यन्ते । भिक्षामाणवः । भिक्षा लप्खेऽहमिति माणवः । भयब्राह्मणः । भयन ब्राह्मणः सपद्यत । “गोत्रादिषु' किम् । दास् श्रोत्रियः । 'क्षेपे' किम् । परमब्राह्मणः ॥ ३८०४ । अङ्गानि मैरेये (६-२-७०) । मद्य.िशेषो मैरेयः । मधुमैरेयः । मधुविकारस्य तस्य मध्वङ्गम् । 'अङ्गानि' किम् । परममैरेयः । “मैरेये' किम् । पुष्पासवः ॥ ३८०५ । भक्ताख्यास्तदर्थेषु (६-२-७१) । भक्तमन्नम् । भिक्षाकसः । भाजीकसः । भिक्षादयोऽन्नवि शेषाः । “भक्ताख्याः किम् । समाशशालयः । समशन समाश इति क्रियामात्रमुच्यते । तदर्थेषु' किम् । भिक्षाप्रिय बहुव्रीहिरयम् । अत्र पूर्वपदमन्तोदात्तम् ३८०६ गोबिडालसिहसैन्धवघूपमाने (६-२ ७२) । धान्,गवः । गोबिडालः । तृणसिहः । सक्तु सैन्धवः । धान्य गौरवेति विग्रहः । व्याघ्रादि । गवाकृल्या सन्निवेशित धान्य धान्यगवशब्दे नोच्यते । “उपमाने' किम् । परमसिहः ॥ ३. ०७ । अके जीविकार्थे (६-२-७३) । 95