पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७५२
सिद्धान्तकौमुद्याम्

(सू ३२७१) इति किप्रत्ययः । अलुक्छान्दसः । “नविषयस्य-' (फिट् २६) इत्याद्युदात्त पुरशब्दः ॥ ३७७७ । चतुर्थी तदर्थे (६-२-४३) । चतुथ्र्यन्तार्थाय यत्तद्वाचिन्युत्तरपदे चतुथ्र्य न्त प्रकृत्या । यूपाय दारु यूपदारु ॥ ३७७८ । अर्थे (६-२-४४) । अर्थे परे चतुथ्र्यन्त प्रकृत्या । देवार्थम् ॥ ३७७९ । ते च (६-२-४५) । क्तान्ते परे चतुथ्र्यन्त प्रकृत्या । गोहितम् ३७८० । कर्मधारयेऽनिष्टा (६-२-४६) । क्तान्ते परे पूर्वमनिष्ठान्त प्रकृत्या । श्रेणिकृताः । श्रेणिशब्द आद्युदात्त । पूगकृताः । पूगशब्दोऽन्तोदात्तः । “कर्मधारये' किम् । श्रण्या कृत श्रेणिकृतम् । “ अनिष्ठा' किम् । कृताकृतम् ॥ ३७८१ । अहीने द्वितीया (६-२-४७) । अहीन चाचिनि समासे त्क्तान्ते परेर द्वितीयान्त प्रकृत्या । कष्टश्रितः । ग्रामगत. । कष्टशब्दोऽन्तोदात्त । प्रामशब्दो नित्स्वरेण । “ अहीने' किम् । कान्तारातीतः । “अनुपसर्ग इति वक्तव्यम्' (वा ३८२१) । नेह । सुखप्राप्त । 'थाथ-' (सू ३८७८) इत्यस्यापवादोऽयम् ॥ ३७८२ । तृतीया कर्मणि (६-२-४८) । कर्मवाचके क्तान्ते परे तृतीयान्त प्रकृत्या । ‘त्वेोतांस ' । रुद्रहत. । महाराजहतः । रुद्रो रगन्तः । “ कर्मणि' किम् । रथन यातो रथयातः ॥ ३७८३ । गति रनन्तरः (६-२-४९) । कर्मार्थे क्तान्ते परेऽव्यवहितो गतिः प्रकृत्या । पुरोहितम् । ‘अनन्तर किम् । अभ्युद्वतः । कारकपूर्वपदस्य तु सतिशिष्टस्थाथादिस्वर एव । दूरादागतः । 'थाथ (सू ३८७८) इत्यस्यापवाद . ॥ ३७८४ । तादौ च निति कृत्यतौ (६-२-५०) । तकारादौ निति तुशब्दवर्जिते कृति परऽनन्तरो गतिः प्रकृत्या । अमेरायो नृतमस्य प्रभूतौ' । “सङ्गतिं गोः' । कृत्स्वरापवादः । ‘तादौ' किम् । प्रजल्पाक. । “निति' किम् । प्रकर्ता । तृजन्त । अतौ' किम् । आगन्तुः ॥ ३७८५ । तवै चान्तश्च युगपत् (६-२-५१) । तवैप्रत्ययान्तस्यान्त उदात्तो गतिश्चानन्तर । प्रकृत्या युगपचैतदुभयं स्यात् । “ अन्वंतवा उं' । कृत्स्वरापवादः । ३७८६ । अनिगन्तोऽञ्चतौ वप्रत्यये (६-२-५२) । अनिगन्तो गतिर्वप्रत्ययान्तेऽचतौ परे प्रकृत्या । “ये पराञ्चस्तान्' । “ अनिगन्त:’ इति किम् । प्रत्यञ्चो यन्तु । कृत्स्वरातू परत्वादयमेव । “जहि वृष्ण्यानि कृणुही परांच .' । “ वप्रत्यये ? किम् । उदञ्चनम् । ३७८७ । न्यधी च (६-२-५३) । वप्रल्यान्तेऽचताविगन्तावपि न्यधी प्रकृत्या । न्यड्डु त्तानः । “उदात्तस्वरितयोर्यण-' (सू ३६५७) इति अञ्चतेरकारः स्वरित । अध्यङ् ॥ ३७८८ । ईषदन्यतरस्याम् (६-२-५४) । ईषत्कडारः । ईषदित्यमन्तोदात्तः । ईषद्रेद इत्यादौ कृत्स्वर एव ॥ ३७८९ । हिरण्यपरिमाण धने (६-२-५५) । सुवर्णपरिमाणवाचिव पूर्वपद वा प्रकृत्या धने । द्वे सुवर्णे परिमाणमस्येति द्विसुवर्ण तदव धन द्विसुवर्णधनम् । बहुव्रीहावपि परत्वाद्विकल्प एव । 'हेहरण्यम्' किम् । प्रस्थधनम् । 'परिमाणम्’ किम् । [ञ्चनधनम् । “धने' किम् । निष्कमाला ३७९० प्रथमोऽचिरोपसपत्तो (६-२-५६) प्रथमशब्दो वा प्रकृत्याभिनवत्वे । प्रथमवयाकरण . । सप्रति व्याकरणमध्येतु प्रवृत्त इत्यर्थ. । प्रथमशब्दः प्रथेरमजन्त । “अचिर-' इति किम् । प्रथमो वैयाकरण ॥ ३७९१ । कतर कतमौ कर्मधारये (६-२-५७) । वा प्रकृत्या । कतरकठः । कर्मधारयग्रहणमुत्तरार्थम् । इह तु प्रतिपदोक्तत्वादेव सिद्धम् ॥ ३७९२ । आर्यो ब्राह्मणकुमारयोः (६-२-५८) । आर्यकुमारः । आर्यब्राह्मणः । आयों ण्यदन्तत्वादन्तस्वरित । “ आर्यः ’ किम् । परमब्राह्मणः । 'ब्राह्मणाद