पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
चतुर्थ: पाद:]
६४३
बालमनोरमा


५५८ । हृपिषिरुहिकृतिविदिछिदिकीर्तिभ्यश्च । हरिर्विष्णावहाविन्द्रे भेके सिंहे हये रवौ । चन्द्रे कीले एवङ्गे च यमे वाते च कीर्तितः । पेषि वाद छेदिइछेत्ता । कीर्ति

५५९ । इगुपधात्कित् । कृषिः । ऋषि । शुचिः । लिपिः । बाहुलका द्वत्वे लिबिः । नूल निष्कर्षे । तूलिः । तूली । कूचिका ।

५६० । भ्रमेः संप्रसारणं च । भूमिर्वातः । बाहुलकाद्भमिः ।

५६१ । क्रमितामिशतिस्तम्भामत इच । क्रिमि. । संप्रसारणानुवृत्ते कृमिरपि । तिमिर्मत्स्यभेद । शितिर्मेचकशुकृयोः । स्तिम्भिः समुद्रः ।

५६२ । मनेरुश्च । मुनिः ।


युगे' इति च । इह इन्नित्येव सूत्रम् । अधिकन्तु प्रक्षिप्त व्यर्थञ्च । एव “सर्वधातुभ्यष्ट्रन इत्यादावपि । अत एव दशपावामिानिलेयेव पठितमिति दिक् । हृपिषि ॥ हरतः कीर्तयतेश्च अच इ' इति प्राप्त इतरेषां तु “इगुपधात्' इति कित्त्व प्राप्त वचनम् । 'हरिश्चन्द्रार्कवाताश्च शुकभेकयमाहेिषु । कपौ सिहे हरेऽजेऽशौ शक्रे लोकान्तरे पुमान् । वाच्यवलिङ्गहरितोः' इति मेदिनी । “वर्तिभेषजनिर्माणे नयनाञ्जनलेखयो । मात्रानुलेपनीदीपदशादीपेषु योषिति । वेदि स्यात्पण्डिते पुमान् । त्रियामडुलिमुद्राया स्यात्परिष्कृतभूतले’ इति च । * कीर्तिः प्रसादयशसो र्विकारे कर्दमेऽपि च' इति विश्व । “सा रसवत्ता विगता नवका विलसन्ति चरति नो कङ्क । सरसीव कीर्तिशेष गतवति भुवि विक्रमादित्ये' इति कविप्रयोगः । इगुपधात्कित् ॥ इन कित्त्वं विधीयते । केचित्तु किरिति पठित्वा इनोऽपवाद किप्रत्यय इत्याहु । तन्न । प्रत्ययस्खरेरण प्रातिपदिकानामन्तोदात्तापत्तेः । न चेष्टापति. । “ अन्निः पूर्वेभित्रैषिभिः । ऋषिर्विप्रः काव्येन । शुचिर्विप्रः शुचिः कवि' इत्यादौ ऋषिशुचिप्रभृतीनामाद्युदात्तत्वदर्शनान् । कथ तर्हि “अक्षम दिव्य कृषिमित्कृषस्व' इत्यादौ कृषिशब्दस्यान्तोदात्ततेति चेत् । “इक् कृध्यादिभ्यः’ इतीक्प्रत्यये सतीति गृहाण । 'ऋषिर्वेदे वसिष्ठादौ दीधित च पुमानयम् । शुचिग्रीष्मान्निश्श्रृङ्गारेष्वौष शुद्धमन्त्रिणि' इति मेदिनी । यत्तु माधवेन “अन्नि पूर्वेभिरित्यूग्व्याख्यावसरे ऋषिशब्दस्य त्प्रत्ययान्तत्वमङ्गीकृत्य, “ऋष्यन्धक' इति निपातनाछघूपधगुणाभाव इत्युक्त तत्प्रकृतसूत्र विस्मरणमूलकत्वादुपेक्ष्यम् । भ्रमे ॥ 'भृमेिं विद्यथावसवोऽजुषन्त' इति मन्त्रे भृमि भ्रमण शीलन्दरिद्रञ्जनमिति वेदभाष्यम् । क्रमितमि ॥ 'क्रमु पादविक्षेपे ।’ “कृमिन क्रिमिवत्कीटे लाक्षाया क्रिमिले खरे' इति विश्वमेदिन्यौ । । 'पारतं पारद वाऽस्त्री वासरः क्रिामिवत्कृमि.’ इति द्विरूपकोशः । तिमिरिति ॥ 'तमु काङ्कायाम् ।' ' अस्ति मत्स्यस्तिमिनॉम तथा चास्ति तिमिङ्गिलः । तिमिङ्गिलगिलोऽप्यस्ति तद्विलोऽप्यस्ति लक्ष्मण’ इति रामायणे सप्तमे काण्डे रामवाक्यम् । “शितिः कृष्णेऽसिते भूर्ज' इति विश्वः । “शितिर्भुजें ना रसितासितयोत्रिषु इति मेदिनी । मनेरुञ्च ॥ ‘मुनिः पुंसि वसिष्ठादौ वङ्गसेनतरौ जिने' इति मेदिनी ।