पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
'प्रकरणम्]
९०१
बालमनोरमा ।

१९९१ । द्वित्र्योश्च धमुञ् । (५-३-४५)

 आभ्यां 'धा' इत्यस्य धमुञ्स्याद्वा । द्वैधम्-द्विधा । त्रैधम्-त्रिधा । 'धमुञन्तात्स्वार्थे डदर्शनम्' (वा ३२६०) । पथि द्वैधानि ।

१९९२ । एधाच्च । (५-३-४६)

 द्वेधा । त्रेधा ।

१९९३ । याप्ये पाशप् । (५-३-४७)

 कुत्सितो भिषक् भिषक्पाशः ।

१९९४ । पूरणाद्भागे तीयादन् । (५-३-४८)

 द्वितीयो भागो द्वितीयः । तृतीयः । स्वरे विशेषः । ‘तीयादीकक्स्वार्थे वा वाच्यः' (वा २६९१) । द्वैतीयीकः-द्वितीयः । तार्तीयीकः-तृतीयः । 'न विद्यायाः' (वा २६९२) । द्वितीया, तृतीया, विद्येत्येव ।

१९९५ । प्रागेकादशभ्योऽछन्दसि । (५-३-४९)

 पूरणप्रत्ययान्ताद्भागेऽन् । चतुर्थः । पञ्चमः ।


नतु धाप्रत्ययस्यादेश इति वाच्यम् । तथा सति अधिकरणविचाल एव सन्निहितत्वादापत्तेः । द्वित्र्योश्च धमुञ् ॥ षष्ठी पञ्चम्यर्थे। ध इति अन्यतरस्यामिति चानुवर्तते । तदाह । आभ्यामिति ॥ परस्येति शेषः । धमुञन्तादिति ॥ वार्तिकमिदम् । दृशिग्रहणात् क्वचिदेवायम् । पथि द्वैधानीति ॥ तृणानीति शेषः । द्वैधमित्यस्मात् डप्रत्यये टिलोपे रूपम् । नच 'तसिलादयः प्राक् पाशपः' इति डप्रत्ययान्तस्याप्यव्ययत्वं शङ्क्यम् । स्वभावत: सत्त्ववचनत्वेनाव्ययत्वासम्भवात् “द्वैधानि” इति भाष्यप्रयोगाच्च । एधाच्च ॥द्वित्रिभ्याम्परस्य धाप्रत्ययस्य एधाजित्यादेशः स्यादित्यर्थः । ‘पञ्चम्यास्तसिल्’ इत्यारभ्य ‘एधाच्च' इत्यन्तैर्विहितप्रत्ययान्तानामव्ययत्वम् । याप्ये पाशप् ॥ याप्यः कुत्सितः । “निकृष्टप्रतिकृष्टार्वरेफयाप्यावमाधमा.” इत्यमरः । कुत्सिते विद्यमानात् स्वार्थे पाशप् स्यादित्यर्थः “प्रवृत्तिनिमित्तकुत्सायामिदम् । अप्रवृत्तिनिमित्तकुत्सायामपि कुत्सित इति वक्ष्यमाणं भवति” इति भाष्ये स्पष्टम् । पूरणाद्भाग ॥ पूरणार्थकतीयप्रत्ययान्तात् भागे विद्यमानात्स्वार्थे अन् स्यादित्यर्थः । अन्विधेः प्रयोजनमाह । स्वरे विशेष इति ॥ ‘ञ्नित्यादिः नित्यम्’ इति स्वरे इत्यर्थः । तीयादीकगिति ॥ वार्तिकमिदम् । 'दृष्टं साम’ इति सूत्रभाष्ये स्थितम् । न विद्यायाः इति । वार्तिकमिदमपि तत्रैव स्थितम् । विद्यावृत्तेः तीयप्रत्ययान्तादीकक् नेत्यर्थः । प्रागेकादशभ्यः । शेषपूरणेन सूत्रं व्याचष्टे । पूरणप्रत्ययान्तात् भागे अनिति ॥ द्वितीयतृतीयशब्दाभ्याम्पूर्वसूत्रेण सिद्धत्वाच्चतुर्थादिदशशब्दपर्यन्तविषयमभिप्रेत्योदाहरति । चतुर्थ इति । नचानेनैव सिद्धत्वात्पूर्वसूत्रङ्किमर्थ-