पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९००
[प्रागिवीय
सिद्धान्तकौमुदीसहिता

१९८५ ॥ दक्षिणादाच् । (५-३-३६)

 अस्तातेर्विषये । दक्षिणा वसति । 'अपञ्चम्याः' इत्येव । दक्षिणादागतः ।

१९८६ । आहेि च दूरे । (५-३-३७)

 दक्षिणाद्दूरे आहि स्यात् । चादाच् । दक्षिणाहि-दक्षिणा ।

१९८७ । उत्तराच्च । (५-३-३८)

 उत्तराहि-उत्तरा ।

१९८८ । सङ्ख्याया विधार्थे धा । ५-३-४२)

 क्रियाप्रकारार्थे वर्तमानात्सङ्ख्याशब्दात्स्वार्थे धा स्यात् । चतुर्धा । पञ्चधा ।

१९८९ । अधिकरणविचाले च । (५-३-४३)

 द्रव्यस्य सङ्ख्यान्तरापादने सङ्ख्याया धा स्यात् । एकं राशिं पञ्चधा कुरु ।

१९९० । एकाद्धो ध्यमुञन्यतरस्याम् । (५-३-४४)

 ऐकध्यम्-एकधा ।


तेन प्राक् ग्रामेणेत्यादि न भवतीत्याहुः । दणिणादाच् ॥ अस्तातेर्विषये इति ॥ एतेन अदूरे इति नानुवर्तते इति सूचितम् । एवञ्च आच्प्रत्यये, उत्तराधरदक्षिणादित्यातिप्रत्यये, दक्षिणोत्तराभ्यां इत्यतसुचि च त्रीणि रूपाणि । आहि च दूरे ॥ दक्षिणाशब्दादिति शेषः । चादाजिति ॥ तथा दूरे उक्तरूपत्रयेण सह चत्वारि रूपाणीति भावः । उत्तराच्च ॥ आच् आहि चेति शेषः । अतसुचा आतिना च चत्वारि रूपाणि । सङ्ख्याया विधार्थे धा ॥ विधाशब्दस्यार्थः प्रकारः विधार्थः "विधा विधौ प्रकारे च" इत्यमरः । सामान्यस्य भेदको विशेषः प्रकारः । स चाभिधानस्वभावात् क्रियाविषयक एव गृह्यते । तदाह । क्रियाप्रकारेति ॥ चतुर्धा । पञ्चधेति । गच्छतीत्यादिक्रियापदमध्याहार्यम् । चतुष्प्रकारा गमनादिक्रियेति बोधः । नवधा द्रव्यमित्यादावपि भवतीत्यादिक्रियापदमध्याहार्यम् । अधिकरणविचाले च ॥ अधिकरणं द्रव्यं, तस्य विचालः विचालनं सङ्ख्यान्तरापादनम् । तदाह । द्रव्यस्येति ॥ सङ्ख्यान्तरापादनञ्च न्यूनसङ्ख्यस्य अधिकसङ्ख्याकरणम् अधिकसङ्ख्यस्य न्यूनसङ्ख्याकरणञ्च । आद्ये उदाहरति । एकं राशिं पञ्चधा कुर्विति ॥ द्वितीये तु अनेकमेकधा कुर्वित्युदाहार्यम् । इह राशिविषयक एव प्रकारो गम्यते नतु क्रियाप्रकार इति सूत्रारम्भः । एकाद्धो ध्यमुञन्यतरस्याम् ॥ एकात् धः इति छेदः । धाशब्दस्य ध इति पञ्चम्येकवचनम् । एकशब्दात्परस्य धाप्रत्ययस्य ध्यमुञादेशः स्यादित्यर्थः । ऐकध्यमिति । नच एकशब्दात् ध्यमुञ्प्रत्ययः स्वतन्त्रो विधीयताम्,