पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८९२
[प्राग्दिशीय
सिद्धान्तकौमुदीसहिता

१९४९ । इदम इश् । (५-३-३)

प्राग्दिशीये परे ।

१९५० । एतेतौ रथोः । (५-३-४)

इदंशब्दस्य “एत' “इत्' इत्यादेशौ स्तो रेफादौ थकारादौ च प्राग्दि शीये परे । इशोऽपवादः ।

१९५१ । एतदोऽन् । (५-३-५)

योगविभागः कर्तव्यः । । एतदः’ एतेतौ स्तो रथोः । “ अन्’ “एतदः इत्येव । अनेकाल्त्वात्सर्वादेशः । “ नलोपः प्रातिपदिकान्तस्य' (सू २३६) ।

१९५२ । सर्वस्य सोऽन्यतरस्यां दि । (५-३-६)

प्राग्दिशीये दकारादौ प्रत्यये परे सर्वस्य सो वा स्यात् ।

१९५३ । पञ्चम्यास्तसिल् । (५-३-७)

पञ्चम्यन्तेभ्यः किमादिभ्यस्तसिल्वा स्यात् ।


कार्यविशेषानाह । इदम इश् इत्यादिना । इदम इश् ॥ प्राग्दिशीये परे इति ॥ शेष पूरणम्। प्रकरणलभ्यमिदम् । शित्वात् सर्वादेशः । इत इत्युदाहरणम् । एतेतौ रथोः ॥ इदम इत्यनुवर्तते । एतश्च इच्चेति द्वन्द्वात्प्रथमाद्विवचनम् । रश्च थ् च तयोरिति द्वन्द्वः । रेफादकार उच्चारणार्थः । रेफथकाराभ्यां प्राग्दिशीयं प्रकरणलभ्यं विशेष्यते । ‘यस्मिन्विधिः’ इति तदादिविधिः । तदाह । इदंशब्दस्येत्यादिना ॥ तत्र रेफादौ परे एतः, थादौ तु इदिति, यथा सङ्ख्यं बोद्ध्यम् । एतर्हि, इत्थम् । एतदोऽन् ॥ प्राग्दिशीये प्रत्यये परे एतद्शब्दस्य अन् स्यादित्यर्थः प्रतीयते । एवं सति एतच्छब्दस्य अनेव स्यात् । नत्वेतेतौ । तत्राह । योगविभाग इति । एतद इति ॥ प्रथमसूत्रमिदम् । तस्य शेषपूरणम् ‘एतेतौ रथोः' इति । एतच्छब्दस्य एतेतौ स्तो रेफथकारादौ प्रत्यये परे इत्यर्थः । एतर्हि, इत्थम्, इत्युदाहरणम् । अन्निति ॥ द्वितीयं सूत्रम् । एतद इत्येवेति ॥ रथोः इति तु नानुवर्तत इति भावः । तथाच एतद् इत्यस्य अन् स्यात्प्राग्दिशीये परे इति फलति । अतः, अत्र, इत्युदाहरणम् । ननु अनादेशे नकारस्य इत्संज्ञायां अकारोऽन्तादेशः स्यादित्यत आह । अनेकाल्त्वादिति ॥ नकारस्य प्रयोजनाभावात् नेत्संज्ञा । नित्स्वरस्य प्रत्ययविषयत्वादिति भावः । तर्हि अत इत्यादौ नकारस्य श्रवणं स्यादित्यत आह । नलोप इति ॥ सर्वस्य सोऽन्यतरस्यान्दि ॥ दि इति सप्तम्येकवचनं प्राग्दिशीयविशेषणम् ‘यस्मिन्विधिः’ इति तदादिविधिः । तदाह। प्राग्दिशीये दकारादाविति ॥ सदा इत्युदाहरणम् । तदेवन्तसिलादिप्रत्ययेषु प्राग्दिशीयेषु परेषु कतिपयान् आदेशान् विधाय तसिलादिप्रत्ययान्वक्तुमुपक्रमते । पञ्चम्यास्तसिल् ॥ किमादिभ्य इति ॥ किंसर्वनामबहुभ्य इत्यर्थ । वा स्यादिति ॥ ‘समर्थनाम्’ इत्यतो