पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८८८
[मत्वर्थीय
सिद्धान्तकौमुदीसहिता

ऐश्वर्यवाचकात्स्वशब्दान्मत्वर्थे आमिनच् । स्वामी ।

१९३३ । अर्शआदिभ्योऽच् । (५-२-१२७)

अर्शांस्यस्य विद्यन्ते अर्शसः । आकृतिगणोऽयम् ।

१९३४ । द्वन्द्वोपतापगर्ह्यात्प्राणिस्थादिनिः । (५-२-१२८)

द्वन्द्वः । कटकवलयिनी । शङ्कनूपुरिणी । उपतापो रोगः । कुष्ठी । किलासी । गर्ह्यं निन्द्यम् । ककुदावर्ती । काकतालुकी । “प्राणिस्थात्' किम् । पुष्पफलवान्घट: । “प्राण्यङ्गान्न' । पाणिपादवती । ’अतः' इत्येव । चित्रक ललाटिकावती । सिद्धे प्रत्यये पुनर्वचनं ठनादिबाधनार्थम् ।

१९३५ । वातातीसाराभ्यां कुक्च । (५-२-१२९)

चादिनिः । वातकी । अतीसारकी । “रोगे चायमिष्यते' । नेह । वातवती गुहा । ’पिशाचाच्च’ (वा ३२२४) पिशाचकी ।


आमिनजिति ॥ निपात्यते इति शेषः । स्वामीति ॥ स्वं ऐश्वर्ये, तद्वानित्यर्थः । नियन्तेति यावत् । ऐश्वर्येत्युक्तेर्धनवानित्यर्थे स्वामीति न भवति । अर्श आदिभ्योऽच् ॥ अर्शस्शब्दः आदिः एषामिति विग्रहः । अर्शस इति । अर्श गुदरोगविशेषः । द्वन्द्वोपताप ॥ द्वन्द्व समासात् उपतापवाचकात् गर्ह्यवाचकाच्च प्राणिस्थविषयेभ्यो मत्वर्थे इनिः स्यादित्यर्थः । द्वन्द्वेति उदाहरणसूचनम् । कटकवलयिनीति ॥ कटकवलययोः कश्चिदाकृतिभेदम्परिकल्प्य द्वन्द्वः उपपाद्यः । उपताप इत्यस्य विवरणं रोग इति । किलासः कुष्ठभेदः । गर्ह्यमित्यस्य विवरणं निन्द्यमिति । ककुदावर्तीति ॥ ककुदङ्ग्रीवाया अधस्तात्पृष्ठभागः । तत्र आवृतः ककुदावर्तः सः अस्यास्तीति विग्रहः । काकतालुकिनीति ॥ काकस्येव तालुके काकतालुके, ते अस्याः स्त इति विग्रहः । प्राण्यङ्गान्नेति ॥ व्याख्यानमेवात्र शरणम् । एवंविधवार्तिकस्य भाष्ये अदर्शनात् । अत इत्येवेति ॥ समासान्त इति सूत्रभाष्यरीत्या मण्डूकप्लुत्या तदनुवृत्तरिति भावः । चित्रकललाटिकावतीति । चित्रकञ्च ललाटिका चेति द्वन्द्वः । अदन्तत्वाभावा दिनिर्नेति भावः । ननु “अत इनिठनौ' इत्यतोऽनुवृत्त्यैव सिद्धे पुनरिह इनिग्रहणङ्किमर्थमित्यत आह । सिद्धे प्रत्यये इति ।। ठनादीति ।। आदिना मतुपः सङ्ग्रहः । वातातीसाराभ्यां कुक्च ॥ चादिनिरिति । वात, अतीसार , आभ्यां मत्वर्थे इनिः स्यात् प्रकृतेः कुक् चेत्यर्थः । कुकि ककार इत् । उकार उच्चारणार्थः । कित्त्वादन्तावयवः । 'वातकीति वातरोगवानित्यर्थः । अतीसारकीति ।। अतीसाररोगवानित्यर्थः । रोगे चायमिति ॥ व्याख्यानादिति भावः । रोग एवेत्यर्थः । वातवती गुहेति ।। अत्र रोगस्याप्रतीतेरिनि कुकौ नेति भावः । पिशाचाच्चेति ॥ वार्तिकमिदम् । पिशाचादिनिः प्रकृतेः कुक्चेत्यर्थः ।