पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
८८७
बालमनोरमा ।

तृप्रालुः । “तृप्रं दुःखम्’ इति माधवः । हिमाच्चेलुः' (वा ३२१८) । हिमं न सहते हिमेलुः । “बलादूलः’ (वा ३२१९) । बलं न सहते बलूलः । 'वातात्समूहे च' (वा ३२२०) । वातं न सहते वातस्य समूहो वा वातूलः । 'तप्पर्वमरुद्भयाम्' (वा ३२२१) । पर्वतः । मरुत्तः ।

१९२९ । ऊर्णाया युस् । (५-२-१२३)

सित्त्वात्पदत्वम् । ऊर्णायुः । अत्र’छन्दसि' इति केचिदनुवर्तयन्ति । युक्त चैतत् । अन्यथा हि ' अहंशुभमो :–’ (सू १९४६) इत्यत्रैवोर्णाग्रहणं कुर्यात् ।

१९३० । वाचो ग्मिनिः । (५-२-१२४)

वाग्मी ।

१९३१ । आलजाटचौ बहुभाषिणि । (५-२-१२५)

'कुत्सित इति वक्तव्यम्' (वा ३२२३) । कुत्सितं बहु भाषते

वाचालः । वाचाटः । यस्तु सम्यग्बहु भाषते स वाग्मीत्येव ।

१९३२ । स्वामिन्नैश्वर्ये । (५-२-१२६)

त्वादिति भावः । हिमाचेलुरिति ॥ वार्तिकमिदम् । हिमशब्दात् द्वितीयान्तात् न सहते इत्यर्थे चेलुः स्यादित्यर्थः । चकार इत् । बलादूल इति ।। तन्न सहते इत्यर्थे वक्तव्य इति शेषः । वातात्समूहे चेति ॥ षष्ठ्यन्ताद्वातशब्दात् समूहेऽर्थे, द्वितीयान्तात् न सहते इत्यर्थे च, ऊलप्रत्ययो वाच्य इत्यर्थः । तप्पर्वमरुद्भ्यामिति ।। वार्तिकमिदम् । पर्वमरुद्भ्यान्तप् वक्तव्य इत्यर्थः । तन्वक्तव्य इति वृत्तिकृत्, हरदत्तश्च । प्रौढमनोरमायान्तु नित्त्वं निराकृतम् । शब्दन्दुशेखरे तु हरदत्तसम्मतं नित्त्वमेव स्थापितम् । रूढत्वादवयवार्थाभावान्न मतुप् । ऊर्णायायुस् ।। ऊर्णायुशब्दे ‘यस्येति च' इति लोपमाशङ्क्य आह । सित्वादिति।। अनुवर्तयन्तीति ॥ “बहुळं छन्दसि' इत्यस्मादिति शेषः । वाचो ग्मिनिः ॥ वाचवशब्दात् मत्वर्थे ग्मिनिप्रत्ययः स्यादित्यर्थः । नकारादिकार उच्चारणार्थः । अतद्धित इति पर्युदासात् गकारस्य नेत्संज्ञा । वाग्मीति ।। वाच्शब्दात् ग्मिनिप्रत्यये कुत्वं, जश्त्वम्। प्रत्यये गकारोच्चारणन्तु ‘प्रत्यये भाषायाम्, इत्यनुनासिकाभावार्थम्। आलजाटचौ।। वाच्शब्दात् आलच्, आटच्, एतौ मत्वर्थे बहुभाषिणीत्यर्थः । ग्मिनोऽपवादः । यस्तु सम्यगिति ।। नच अबहु, अकुत्सितञ्च यो वदति तत्रापि वाग्मीति कुतो न भवतीति वाच्यम् । यो हि सम्यक् बहु भाषते वाग्मीत्येव स भवतीति भाष्यबलेन पूर्वसूत्रस्य सम्यक् बहुभाषिण्येव प्रवृत्तेरभ्युपगमात् इति भावः । स्वामिन्नैश्वर्ये ॥ ऐश्वर्ये इति प्रकृतिविशेषणमित्यभिप्रेत्य आह । ऐश्वर्यवाचकादिति ॥