पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८८४
[मत्वर्थीय
सिद्धान्तकौमुदीसहिता

१९२० । दन्तशिखात्संज्ञायाम् । (५-२-११३)

दन्तावलो हस्ती । शिखावलः केकी ।

१९२१ । ज्योत्स्नातमिस्राश्रृङ्गिणोर्जस्विन्नूर्जस्वलगोमिन्मलिनमलीमसाः । (५-२-११४)

मत्वर्थे निपात्यन्ते । ज्योतिष उपधालोपो नश्च प्रत्ययः । ज्योत्स्ना । तमस उपधाया इत्वं रश्च । तमिस्रा । स्त्रीत्वमतन्त्रम् । तमिस्रम् । श्रृङ्गादिनच् । शृङ्गिणः । ऊर्जसो वलच् । तेन बाधा माभूदिति विनिरपि । ऊर्जस्वी । ऊर्जस्वलः । ‘ऊजोंऽसुगागमः’ इति वृत्तिस्तु चिन्त्या। ऊर्जस्वतीः' इतिवदसुन्न न्तत्वेनैवोपपत्तेः । गोशब्दान्मिनिः । गोमी । मलशब्दादिनच् । मलिनः । ईमसञ्च । मलीमसः ।

१९२२ । अत इनिठनौ । (५-२-११५)

दण्डी-दण्डिकः ।


इत्यादौ ‘वले' इति दीर्घमाशङ्क्य आह । वले इत्यत्रेति ।। दन्तशिखात्संज्ञायाम् ॥ समाहारद्वन्द्वात्पञ्चमी। दन्तशब्दात् शिखाशब्दाच्च मत्वर्थे वलच् स्यात्संज्ञायामित्यर्थः । ज्योत्स्ना ॥ ज्योतिष इति ॥ ज्योतिरवयवाः ज्योतींषि, तान्यस्यां सन्तीति विग्रहे ज्योतिष्शब्दात् नप्रत्ययः उपधाभूतस्य इकारस्य लोपश्च निपात्यते । सति च इकारस्य लोपे इणः परत्वाभावात् षत्वनिवृत्तौ ज्योत्स्नेति रूपम् । “चन्द्रिका कौमुदी ज्योत्स्ना” इत्यमरः । तमस इति ॥ तमः अस्या स्तीति विग्रहे तमस्शब्दात् रक्प्रत्ययः। उपधाभूतस्य मकारादकारस्य इत्वञ्च निपात्यते इत्यर्थः । ‘तमिस्रा तामसी रात्रिः” इत्यमरः । ननु 'तमिस्रा' इति स्त्रीलिङ्गनिर्देशात् तमिस्रङ्गृहमिति कथमित्यत आह। स्त्रीत्वमतन्त्रमिति ॥ निपात्यते इति शेषः । श्रृङ्गिण इति ।। शृङ्गमस्त्यास्तीति विग्रहः । इनचि णत्वम् । ऊर्जसो वलजिति । निपात्यते इति शेषः । ऊर्जस इत्यव्युत्पन्नं प्रातिपदिकम् । ननु ’अस्मायामेधा' इति विनिना सिद्धेरूर्जस्विन्निति निपातनं व्यर्थमित्यत आह । तेनेति ॥ विशेषविहितेन वलचा अस्मायेति सामान्यविहितस्य विनो निवृत्तिर्माभूदित्येतदर्थे विनो निपातनमित्यर्थः । ऊर्जस्वल इति ॥ ऊर्जशब्दाद्वलचि प्रकृतेरसुगागम इति वृत्तिग्रन्थः अनुपपन्न इत्यर्थः । कुत इत्यत आह । ऊर्जस्वतीरितिवदिति ॥ ऊर्जस्वतीरित्यत्र वलभावेन तत्सन्नियोगशिष्टस्य असुगागमस्याप्रसक्तेः तत्र ऊर्जस् इत्यव्युत्पन्नं प्रातिपदिकमवश्यमभ्युपेयम् । तेनैव ऊर्जस्विन्नूर्जस्वलयोः वलज्मात्रनिपातनोपपत्तेरित्यर्थः । ईमसच्चेति ॥ मलशब्दात् निपात्यते इति शेषः । अत इनिठनौ ॥ अदन्तान्मत्वर्थे इनिठन् एतौ स्त इत्यर्थः । समुच्चयार्थकान्यतरस्याङ्ग्रहणानुवृत्तेर्मतुबपि भवति । “ एकाक्षरात्कृतो जातेः सप्तम्याञ्च न तौ स्मृतौ” इति भाष्यम् । एकाक्षरात् स्ववान्, कृतः कारकवान्, जातेः